________________
१-देवतत्त्वम् गा-५८, ५९, ६०
जिणपवयणवुड्डिकरं पभावगं नाणदंसणगुणाणं ।
वटुंतो जिणदव्वं तित्थयरत्तं लहइ जीवो ।।६०।। चक्रे० : जिनप्रवचनवृद्धिकरं ज्ञानदर्शनगुणानामुपलक्षणत्वाच्चारित्रगुणानां च प्रभावकम् । न हि जिनशासनवृद्धिश्चैत्यालयं विना स्यान्न च तद्रव्यं विना प्रत्यहं प्रतिजागर्तुं जीर्णं विशीर्णं वा पुनरुद्धर्तुं पार्यते । तथा तेन पूजार्थद्रव्येण पूजादिषु श्रावकैः क्रियमाणेषु ज्ञानदर्शनचारित्रगुणा दीप्यन्ते । यस्मादज्ञानिनोऽपि 'अहो तत्त्वानुगा बुद्धिरेषाम्' इत्युपबृंहयन्तः क्रमाज्ज्ञानादिगुणलाभभाजः स्युः । तस्मादेवंविधं जिनद्रव्यं भक्षयननन्तसंसारिको भवतीति तीर्थच्छेदकत्वेन सकलज्ञानादिगुणघातकत्वात् । रक्षश्च *परीतसंसारिकः, अनेकार्थत्वाद्धातूनामिति दानार्थोऽपि दाधातुः परिपूर्वोऽत्र सङ्ख्यावचनः, तेन परीतः परिमितीकृतः संसारो जिनद्रव्यरक्षकत्वेनोद्धृतप्रवचनत्वादाराधितज्ञानादिगुणत्वाञ्च येन स परीतसंसारिकस्तथा वर्धयन् स्वधनप्रक्षेपादिना तीर्थंकरत्वं लभते जीवोऽर्हति वात्सल्यात्प्रवचनप्रभावकत्वाच्च यदागमः -
अरिहंत सिद्ध पयवण गुरु थेर बहुस्सुए तवस्सीसुं । वच्छल्लया य एसिं अभिक्खनाणोवओगे य ।। दंसणविणए आवस्सए य सीलव्वए निरइयारो । खणलव तवञ्चियाए वेयावञ्चे समाही य ।। अपुव्वनाणगहणे सुयभत्ती पवयणे पभावणया ।
एएहिं कारणेहिं तित्थयरत्तं लहइ जीवो ।। [ आव. नि. १७९-१८१] पूर्वार्द्ध च गाथात्रयेऽप्येकालापकेन भणनं जिनद्रव्यस्यातिशयख्यापनार्थम् ।।५८, ५९, ६० ।। ।। इति पूज्यश्रीचक्रेश्वरसूरिप्रारब्धायां तत्प्रशिष्यश्रीतिलकाचार्यनिर्वाहितायां
सम्यक्त्ववृत्तौ समर्थितं प्रथमं देवतत्त्वम् ।। देव० : जिनप्रवचनमार्हतशासनम्, तस्य वृद्धिकरं तत्सन्तानाव्यवच्छित्तिहेतुतया तथा प्रभावकं दीपकं ज्ञानदर्शनगुणानामुपलक्षणत्वाच्चारित्रगुणानां च, न खलु जिनप्रवचनवृद्धिजिनवेश्मविरहेण भवति, न च तद् द्रव्यव्यतिरेकेण प्रतिदिनं प्रतिजागरयितुम्, जीर्णं विशीर्णं वा पुनरुद्धर्तुं पार्यते, तथा तेन पूजामहोत्सवादिषु श्रावकैः क्रियमाणेषु ज्ञानदर्शनचारित्रगुणाश्च दीप्यन्ते, यस्मादज्ञानिनोऽपि 'अहो तत्त्वानुगामिनी बुद्धिरेतेषाम्' इत्युपबंहयन्तः क्रमेण ज्ञानदर्शन
* प्राकृत 'परित्त' इत्यस्य संस्कृत छाया 'परीत' भवति ।