________________
७२
तथा
सव्वत्थामेण तहिं संघेण य होइ लग्गियव्वं तु । सचरित्तचरित्तीण य सव्वेसिं होइ कज्जं तु ।।
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
[पञ्चकल्पभा० १६६९ - १६७२] इति गाथार्थः ।।५।। * उपदेशपदे- ४१५ *
-
चेइयदव्वविणासे तद्दव्वविणासणे दुविहभेए । साहू उवेक्खमाणो अनंतसंसारिओ भणिओ ।।
इह चैत्यद्रव्यं क्षेत्रहिरण्यग्रामवनवास्त्वादिरूपं तत्तत्समयवशेन चैत्योपयोगितया सम्पन्नं तस्य विनाशे चिन्तानियुक्तैः पुरुषैः सम्यगप्रतिजागर्यमाणस्य स्वत एव परिभ्रंशे सम्पद्यमाने, तथा तद्द्रव्यविनाशने चैत्यद्रव्यविलुण्टने परैः क्रियमाणे । कीदृशे इत्याह- द्विविधभेदे वक्ष्यमाणविनाशनीयद्विविधवस्तुविषयत्वेन द्विप्रकारे । साधुः सर्वसावद्यव्यापारपराङ्मुखोऽपि यतिरुपेक्षमाणो माध्यस्थ्यमवलम्बमानोऽनन्तसंसारिकोऽपरिमाणभवभ्रमणो भवति, सर्वज्ञाज्ञोल्लङ्घनात् । उक्तं च पञ्चकल्पभाष्ये, यथा –
चोएइ चेइयाणं खेत्तहिरण्णाई गामगावाइं । मग्गंतस्स हु जइणो तिगरणसुद्धी कहं नु भवे ? ।। भण्णइ एत्य विभासा जो एयाइं सयं विमग्गेज्जा । न हु तस्स होइ सुद्धी अह कोइ हरेज्ज एयाई ।। सव्वत्थामेण तहिं संघेणं होइ लग्गियव्वं तु । सचरित्ताचरित्तीणं एवं सव्वेसिं सामन्नं ।। इति ।।४१५ ।।
xxx उपेक्षमाणो देशनादिभिरनिवारयन् xxx
चक्रे० : सम्प्रति
* श्राद्धदिनकृत्ये - १२७*
जिनद्रव्यप्रभावाविष्करणपूर्वकं
भक्षण-रक्षण-वर्धनफलोपदर्शनाय
गाथात्रयमाहुः
देव० : इह च प्रेक्षावत्प्रवृत्तेः फलेप्साव्याप्तत्वादिति जिनद्रव्यप्रभावाविष्करणपुरस्सरं भक्षण- रक्षण-वर्द्धनफलोपदर्शनाय गाथात्रयमाह
जिणपवयणवुडिकरं पभावगं नाणदंसणगुणाणं । भक्तो जिणदव्वं अणंतसंसारिओ होइ ।। ५८ ।। जिणपवयणवुडिकरं पभावगं नाणदंसणगुणाणं । रक्खंतो जिणदव्वं परित्तसंसारिओ होइ ।। ५९ ।।