________________
१-देवतत्त्वम् गा-५७
सव्वत्थामेण तहिं संघेण य होइ लग्गियव्वं तु । सचरित्तऽचरित्तीण य सव्वेसि होइ कज्जं तु ।।।
[पञ्चकल्पभाष्य-१५६९-१५७२] इति गाथाचतुष्टयार्थः ।।५७ ।। देव० : चैत्यं पञ्चधा, सार्मिकचैत्यं यथा वारत्तकसाध्वादीनाम्, मङ्गलचैत्यं गृहद्वारदेशादिनिकुट्टितप्रतिमारूपम्, शाश्वतं नन्दीश्वरादिव्यवस्थितम्, भक्तिचैत्यं भक्त्याकृतं जिनायतनम्, तच्च साधुनिश्रया कृतं निश्राकृतं तदनिश्रयाकृतं त्वनिश्राकृतम् । इह तु सामान्येन जिनायतनं गृह्यते, तस्य द्रव्यं हिरण्यसुवर्णादिरूपम्, तस्य विनाशे जायमाने, तथा तद्रव्यविनाशने तस्य चैत्यस्य द्रव्यमुपकारकं दारूपलेष्टकादिवस्तु तस्य विनाशने सम्पद्यमाने, द्विविधभेदे नूतनलग्नोत्पाटितविनाश्यदैविध्याद् द्विप्रकारभेदे, मूलोत्तरभेदाद्वा, तत्र मूलं स्तम्भकुम्भिकादि, उत्तरं तु छादनादि, स्वपक्षपरपक्षजनितविनाशद्वैविध्याद्वा द्विविधभेदे, यदाह
जुग्गं अईयभावं मूलुत्तरभावओ अहव कटुं ।
जाणाहि दुविहभेयं सपक्खपरपक्खमाई वा ।। [ ] स्वपक्षः श्रावकादिः, परपक्षो मिथ्यादृष्ट्यादिः । साधुर्यतिरुपेक्षमाणश्चैत्यद्रव्यादिविनाशमेवानन्तसंसारिको भणितस्तीर्थकृद्गणधरैरिति । अथ त्रिधा प्रत्याख्यातसावद्यस्य यतेश्चैत्यद्रव्यादिचिन्तायां को नामाधिकार इति चेदुच्यते-यदि राजाऽमात्याद्यभ्यर्थनपुरस्सरगृहहट्टग्रामादिकायदानादिविधिनाऽनवरतमुत्पादयति तदा भवति भवद्विवक्षितार्थसिद्धिः, यदा तु केनचिद्यथाभद्रकादिना धर्माद्यर्थं प्राग्वितीर्णमन्यद्वा जिनद्रव्यं विलुप्यमानं रक्षति तदा नाऽभ्युपेतार्थहानिरपि तु विशेषतः पुष्टिरेव, सम्यग्जिनाज्ञाऽऽराधनाद, यथाहि जिनभवनं नवमकारयतोऽपि पूर्वकृतं तु तत्प्रतिपन्थिनिग्रहेणापि रक्षतो न प्रायश्चित्तं नापि प्रतिज्ञाभङ्ग इति । आगमोऽप्येवमेव व्यवस्थितः, यदाह
चोएइ चेइयाणं खेत्तहिरने व गामगावाई । मग्गंतस्स उ जइणो तिगरणसोही कहं नु भवे ?।। भन्नइ इत्थ विभासा जो एयाई सयं विमग्गेज्जा । तस्स न होई सोही अह कोइ हरेज्ज एयाइं ।। तत्थ करंतु उवेहं जा सा भणियाउ तिगरणविसोही ।
सा य न होइ अभत्ती य तस्स तम्हा निवारेज्जा ।। १. माइं वा T,C