________________
७०
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
* श्राद्धदिनकृत्ये- -१२६ *
देवद्रव्यवक्तव्यतां सदृष्टान्तमभिधाय साम्प्रतं तस्य साधारणद्रव्यस्य च तुल्यदोषोद्भावयिषयाह चेइयदव्वं साहारणं च जो दुहइ मोहियमईओ ।
धम्मं च सो न याणइ अहवा बद्धाउओ नरए ||
‘चेइय॰’ चैत्यद्रव्यं प्रसिद्धम् । साधारणं च चैत्यपुस्तकापद्गतश्रावकादिसमुद्धरणयोग्यमृद्धिमच्छ्रावककृतसमुद्गकरूपम् । ते द्वे अपि यो द्रुह्यति विनाशयति दोग्धि वा व्याजव्यवहारादिना तदुपयोगमुपभुङ्क्ते, मोहितमतिकः क्लिष्टकर्मोदयान्मूढीकृतचेतस्कः । 'धम्मं च' इति प्राग्वदिति ।।१२६ ।। देव : आस्तां श्रावकः, साधुनाऽपि तद्विनाशे नोपेक्षा विधेया, यतः
चेइयदव्वविणासे तद्दव्वविणासणे दुविहभेए । साहू विक्खमाणो अनंतसंसारिओ भणिओ ।। ५७ ।।
चक्रे : तथा चैत्यद्रव्यस्य सुवर्णादेर्विनाशे । तथा तद्द्द्रव्यविनाशने तस्य चैत्यस्य द्रव्यमुपकारकं दारूपलेष्टिकादि, तस्य विनाशने जायमाने द्विविधभेदे द्विप्रकारभेदे । नूतनलग्नोत्पाटितविनाश्यद्वैविध्यात्, मूलोत्तरभेदाद्वा । तत्र मूलं स्तम्भकुम्भिकाद्युत्तरं तु छादनादि । स्वपक्षपरपक्षजनितविनाशनभेदाद्वा ।
स्वपक्षः श्रावकादिः, परपक्षो मिथ्यादृष्ट्यादिः, अपि शब्दस्याध्याहारादास्तां श्रावकः साधुरपि सर्वसावद्य विरतो यतिरप्युपेक्षमाण औदासीन्यं कुर्वाणोऽनन्तसंसारिको भणितस्तीर्थकृद्गणधरैः । न चैवं यतेर्यतित्वस्य हानिस्तस्य हि नव्यमादानिकमुत्पादयतो हानिः स्याद्, अग्रेतनं तु विलुप्यमानं रक्षतो विशेषतस्तत्पुष्टिरेव । यस्मादागमोऽप्येवमेवास्ते - यदाह
चोएइ चेइयाणं खेत्तहिरने व गामगावाई । मग्गतस्स उ जइणो तिगरणसोही कहं न भवे ? ।। नु भन्नइ इत्थ विभासा जो एयाई सयं विमग्गेज्जा । तस्स न होई सोही अह कोइ हरेज्ज एयाई ।।
-
तत्थ करंतु उवेहं जा सा भणिया उ तिगरणविसोही । साय न होइ अभत्ती य तस्स तम्हा निवारेज्जा ।।
१. उवेक्खमाणो. Z
-