________________
१-देवतत्त्वम् गा-५४, ५५, ५६
अथ भक्षणवदुपेक्षाऽपि दोषायैवेति तामनर्थहेतुत्वेनाह
* संबोधसित्तर्याम् - ६८*
भक्खे जो उवक्खेइ जिणदव्वं तु सुसावओ । पणाही भवे सो उ लिप्पई पावकम्मुणा ।।
-
भणितमेव दर्शयति
तु पुनरर्थे, स चाग्रे योक्ष्यते । कश्चिन्निःशूकोऽनन्तभवभ्रमणहेतुजिनद्रव्योपभोगमजानानो जिनद्रव्यं भक्षयति । यः पुनः सुश्रावको जिनधर्मवासितचेतस्कतया शोभनश्राद्धस्तं जिनद्रव्यभोक्तारमुपेक्षत अवजानाति, यदि जिनद्रव्यमसौ भक्षयति तदा मम किं यातीति देवद्रव्यरक्षणाय न यतते, दोषदर्शनादिभिर्न निवारयतीत्यर्थः । सः श्राद्धः स्वयं तद्द्रव्योपयोगाभावेऽप्युपेक्षणात्परभवे प्रज्ञाहीनो बुद्धिरहितो मूर्खो भवेत्। तु पुनः पापकर्मणा लिप्यत अशुभकर्मणाऽऽ श्लिष्टो जायते ।। ६८ ।।
-
६९
* संबोधसप्ततिकायाम्-६९ *
xxxतु पुनरुपेक्षति तत्प्रति निरादरं करोति, तेन द्रव्येण निजकुटुम्बलाभार्थं व्यापारं करोति । xxx * द्रव्यसप्ततिकायाम् - १५ *
आयाणं जो भंजइ पडिवण्णधणं ण देइ देवस्स ।
गरहंतं चोविक्खइ सो वि हु परिभमइ संसारे ।।
आयाणमिति० आदानं तृष्णाग्रहग्रस्तत्वात्, देवाऽऽदिसत्कं भाटकं यो भनक्ति, तथा यः पर्युषणादिषु चैत्यादिस्थाने देयतया प्रतिज्ञातं धनं न दत्ते, तथा गर्हन्तमीर्ष्यादिवशाद्दुर्वाक्येन दूषयन्तमविनीतं यो वोपेक्षते, तथा सति, कदाचित्तद्वाक्यश्रवणाद् महेन्द्रपुरीयश्राद्धवद् ग्लानीभूय, देवादिद्रव्यरक्षादौ शक्तिमानप्युदासीनो भवतीत्यर्थः । यतः 'एतदेव महत्पापं धर्मस्थानेऽप्युदासिता ।' इति ।। १५ । * उपदेशपदे- ४१४*
चेइयदव्वं साहारणं च जो दुहति मोहियमतीओ । धम्मं व सोन याति अहवा बद्धाउओ पुव्विं ।।
चैत्यद्रव्यं चैत्यभवनोपयोगि धनधान्यादि काष्ठपाषाणादि च, तथा साधारणं च द्रव्यं, तथाविधव्यसनप्राप्तौ शेषद्रव्यान्तराभावे जिनभवनजिनबिम्बचतुर्विधश्रमणसङ्घजिनागमलेखनादिषु
धर्मकृत्येषु सीदत्सु सत्सु यदुपष्टम्भकत्वमानीयते, तत्र यो दुह्यति विनाशयति । कीदृशः सन्नित्याहमोहितमतिको लोभातिरेकेण मोहमानीता मोहिता मतिरस्येति समासः । धर्मं वा जिनप्रणीतं स न जानाति । अनेन च तस्य मिथ्यादृष्टित्वमुक्तम् । अथवा जानन्नपि किञ्चिद् धर्म्यं बद्धायुष्को नरकादिदुर्गतौ पूर्वं चैत्यद्रव्यादिचिन्ताकालात् प्रागिति ।।४१४।।