________________
१-देवतत्त्वम् गा-५४, ५५, ५६
चक्रे० : आशातनादशकं वर्जयेतेति व्याख्यातमधुना जिनद्रव्यभक्षणेत्यादि व्याख्यातुं रूपकचतुष्टयमाहुः* -
देव० : आशातनादशकं वर्जयतेति व्याख्यातमधुना जिनद्रव्यभक्षणेत्यादि व्याचिख्यासुः श्लोकं गाथाद्वयं *चाह -
भक्खेइ जो उवेक्खेइ जिणदव्वं तु सावओ । पन्नाहीणो भवे जो उ लिप्पई पावकम्मणा ।।५४ ।। आयाणं जो भंजइ पडिवनधणं न देइ देवस्स । नस्संतं समुवेक्खइ सो वि हु परिभमइ संसारे ।।५५।। चेइयदव्वं साहारणं च जो दुहइ मोहियमईओ ।
धम्मं व सो न याणइ अहवा बद्धाउओ नरए ।।५६।। चक्रे० : तत्र जिनद्रव्यं भक्षयति स्वयम्, तुशब्दस्य समुच्चयार्थत्वादन्यैर्भक्ष्यमाणमुपेक्षते च। तथा प्रज्ञाहीनः स्वल्पेन बहुना वाऽर्थेन कार्यसिद्धिमजानानो मन्दमतितया यथाकथञ्चिद्रव्यव्ययकारी लेख्यकूटश्च यो भवेद्यत्तदोर्नित्यसम्बन्धात्स लिप्यते पापकर्मणा ।।५४ ।।
तथा 'आयाणं जो भंजइत्ति गाथा सुगमा, नवरं 'नस्संतं समुवेक्खइ' त्ति सामर्थ्य सतीति ज्ञेयम् ।।५५।।
चैत्यद्रव्यं प्रतीतम्, साधारणं च सप्तक्षेत्रोपयोगि, यो मोहितमतिः पापकर्मा द्रुह्यति भक्षयति दोग्धि वा तत्कालान्तरभोगादिना, धर्मं वा सर्वज्ञप्रणीतं स न जानाति, न हि जानन् जिनद्रव्यं भक्षयति । अथवा भक्षणकालात्प्राग् नरके बद्धायुष्कस्ततो भक्षयति ।।५६ ।।
देव० : भक्षयति भुनक्ति यः श्रावकः श्रावकग्रहणं चास्य जानतो भक्षणे गरीयान् दोष इति ज्ञापनार्थम्, यावताऽन्योऽपि पापकर्मणा लिप्यत एव, वक्ष्यमाण तुशब्दस्य समुच्चयार्थस्येह सम्बन्धादुपेक्षते वान्यैर्विलुप्यमानम्, किमेतैः स्वजनादिभिर्मम विरोधितैरित्युदास्ते, किमित्याहजिनस्य स्थापनार्हतो द्रव्यं पूजार्थनिर्माल्याक्षयनिधिस्वरूपम्, तथा तुशब्दोऽपिशब्दार्थो भिन्नक्रमश्च, ततः प्रज्ञाहीनोऽप्यल्पेन बहुना वार्थेन कार्यसिद्धिमजानानो मन्दमतितया * अत्र चक्रे० व्याख्यायां रूपकचतुष्टयमाहु इत्यनेन पद्यचतुष्कं व्याख्यातं,
देव० व्याख्यायां तु श्लोक गाथाद्वयं चाह इत्यनेन पद्यत्रिकं व्याख्यातम् । १. व्याचिख्यासू रूपकचतुष्टयमाह T.C२. उविक्खेइ A उवक्खेइ PK. ३. तत्र भक्षयति भनक्ति विद्रवतीत्यर्थो । यः कश्चिद् श्रावक इति संटङ्क: C.T