________________
६६
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
चक्रे० : एतदेवाहुः - देव० : एतदेवाह -
देवहरयम्मि देवा विसयविसमोहिया वि न कया वि ।
अच्छरसाहिं पि समं हासखिड्डाइ वि कुणंति ।।५३।। चक्रे : अक्षरार्थः सुगमस्तत्त्वार्थस्त्वयम् - यदि तावदत्यन्तविषयिणः सतताऽविरताश्च देवा अप्यसञ्चेष्टापरिहारेण संवृतात्मानो जिनभवनादौ तिष्ठन्ति ततो विरताविरतैः सुतरां तत्परिहारेण स्थेयमिति ।।५३।।
देव० : देवगृहमेव देवगृहकं तस्मिन् देवाः पूर्वोक्ताः, विषीदन्ति धर्मं प्रति नोत्सहन्त एषु, विषिण्वन्ति वाभिष्वजन्ते जन्तव एष्विति विषयाः, यद्वाऽऽसेवनकाले मधुरत्वेन, परिणामे चातिकटुकत्वेन विषस्योपमां यान्तीति विषयाः शब्दादयस्त एव विषम्, तेन विशेषेण नितान्तलोलुपत्वलक्षणेन मोहिता अपि मूर्छिता अपि कदाचिदपि न कुर्वन्तीति सम्बन्धः, किम् ? हासखिङ्गाद्यपि, आस्तां तत्सम्भोगादि, तत्र हासोऽट्टहासः, खेड्यं क्रीडनम्, यद्वा हासपूर्वं खेड्यं हासखेड्यं कौकुच्यकरणम्, काभिः ? अप्सरोभिरपि समं देवीभिरपि, इदमत्र हृदयम्-यदि तावदत्यन्तविषयिणः सतताविरताश्च देवा अप्यसच्चेष्टापरिहारेण संवृतात्मानो जिनभवनादौ तिष्ठन्ति तदा विरताविरतैः सुतरां तत्परिहारेण तत्र स्थातुं युज्यत इति गाथार्थः ।।५३।।
* उपदेशपदे-४११ * एतदेव भावयति -
देवहरयम्मि देवा विसयविसविमोहिया वि न कयाइ ।
अच्छरसाहिं पि समं हासक्खेडाइ वि करेंति ।। देवेत्यादि । देवगृहके नन्दीश्वरादिगतचैत्यभवनरूपे देवा जिनजन्ममहिमादिषु सन्तो विषयविषमोहिता अपि दुष्टचारित्रमोहोदयाद् न नैव कदाचित् कस्यामपि वेलायामप्सरोभिरपि स्वप्राणाधिकप्रेमपदप्राप्ताभिः समं सहासखेलाद्यपि, इह हासः प्रतीत एव, खेला क्रीडा, आदिशब्दाच्चित्रसूचीवचनग्रहः, अपिशब्दाच्च संभोगादिस्थूलशेषापराधावरोधो दृश्यः, कुर्वन्ति विदधति । यदत्राप्सरोग्रहणं तत् तासां हासक्रीडादिस्थानत्वेन ताभिः सह तेषां हासादिपरिहारस्य दुष्करत्वख्यापनार्थमिति ।।४११।।
१. हासखेड्डाइ2 २. देववेश्यादिभिरपि A