________________
१-देवतत्त्वम् गा-५२
प्रथमा । ततश्चानुचितासनादेर्मसूरकाऽऽसन्दकादेरादिशब्दाञ्चन्दनकुसुमकुङ्कुमकस्तूरिकादेरभोगोऽनासेवनमायतने जिनगृहे । अत्र चार्थे देवा उदाहरणं दृष्टान्तः ।।५२ ।।
देव० : निष्ठीवनमादिर्यस्य दन्तधावनवदनक्षालनशरीरमलोज्झनादेस्तन्निष्ठीवनादि, तस्याऽकरणम्, क्व ? आयतने जिनवेश्मनि, तथाऽसत्याऽशोभना कथा स्त्रीभक्तादीनामसत्कथा, विभक्तिलोपात्तस्या अकरणमितीहापि सम्बध्यते। तथानुचितासनं मसूरकासन्दकादि तदादिर्यस्य तूलीगब्दिकापल्यङ्काद्यासनं तस्याप्यकरणमितीहापि सम्बध्यते चः समुच्चये, अभोगोऽवस्थानादिपरिहारः । अत्र चास्मिन् पूर्वोक्तेऽर्थे देवा भवनपत्यादय उदाहरणं निदर्शनमिति गाथार्थः ।।५२।।
* उपदेशपदे-४१० * अभोगमेव दर्शयति -
निट्ठीवणाइकरणं असक्कहा अणुचियासणादी य।
आयतणम्मि अभोगो एत्थं देवा उयाहरणं ।। निष्ठीवनादिकरणमिह निष्ठीवनं मुखश्लेष्मपरित्यागः, आदिशब्दाद् मूत्रपुरीषताम्बूलकर्णनासिकादिमलप्रोज्झनग्रहः । असत्कथा स्त्रीभक्तचोरजनपदादिवृत्तान्तनिवेदनलक्षणा। अनुचितासनादि चानुचितमासनं गुरुजनासनापेक्षयोच्चं समं वा, आदिशब्दात् पर्यस्तिकादिबन्धग्रहः । एतत्सर्वं, किमित्याहआयतने जिनगृहेऽभोगो वर्त्तते । इह नञ् कुत्सार्थः, यथाऽत्र -
जह दुव्वयणमवयणं कुच्छियसीलं असीलमसईए ।
भण्णइ तह णाणंपि हु मिच्छद्दिट्ठिस्स अण्णाणं ।। [वि.आ.भा. ५२०] इति । ततः कुत्सितो भोगश्चैत्यगृहोपजीवनमभोगः, चैत्याशातनाफलत्वेन तस्य दुर्गतिहेतुत्वात् । अत्र भोगपरिशुद्धौ देवा भवनपत्यादय उदाहरणम् ।।४१० ।।
* श्राद्धदिनकृत्ये-१२३ * xxx असत्कथानुचितासनानामाशातनान्तर्गतत्वेऽपि पृथग्ग्रहणमेषां महावज्ञास्पदत्वेनातिशयवर्जनख्यापनार्थम् । xxx
१. अभोगोऽनासेवनं कर्तव्य इति शेष: T, C