________________
૬૪
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
'सइत्ति सदा सर्वकालं यत्नत एव परिभोग इत्यनेनैतद्योज्यम् । व्यतिरेकमाह- अनिष्टफलसाधको दुर्गतिजनक इतरथाऽयत्नतः । अथ देवतत्त्वविचारणायां को नाम गुरोरिह प्रस्तावः ? सत्यम्, अवग्रहसाम्यात्, तदवग्रहप्रमाणं चेत्थम् -
आयप्पमाणमित्तो चउद्दिसि होइ अवग्गहो गुरुणो ।
अणणुनायस्स सया न कप्पई तत्थ पविसेउं ।। [प्रव.सारो० १२६] इति । एवमप्याराध्यतरत्वेन देवशब्दस्य यथा प्रागुपादानं युज्यते न विवक्षया गुरूणां पूज्यतरत्वात्, न हि सद्गुरूपदेशं विना देवस्याप्यभिगम इति भाव इति गाथार्थः ।।५१।।
* पञ्चाशके-१२/२३ * अथ कस्मादवग्रहप्रवेशे नैषेधिकी विधेयेत्यत आह -
गुरुदेवोग्गहभूमिए जत्तओ चेव होंति परिभोगो ।
इट्ठफलसाहगो सइ अणिट्ठफलसाहगो इहरा ।। गुरुदेवावग्रहभूम्या आचार्यदेवाधिदेवाश्रयभुवो यत्नत एव आशातनापरिहारप्रयत्नेनैव । चैवशब्दोऽवधारणे। भवति वर्तते परिभोगः, स च किम्भूत इत्याह-इष्टफलसाधक ईप्सितार्थनिष्पादकः, कर्मक्षयहेतुरित्यर्थः । सकृत्सर्वदा, उक्तव्यतिरेकमाह-अनिष्टफलसाधकः कर्मबन्धहेतुरित्यर्थः, इतरथाऽन्यथाऽप्रयत्नत इत्यर्थः, गुरुदेवावग्रहभूमेः परिभोग इति प्रकृतम्, तत्र गुर्ववग्रहस्वरूपमावश्यकेऽभिहितं यथा-'आयप्पमाणमेत्तो चउद्दिसिं होइ उग्गहो गुरुणो 'त्ति देवावग्रहस्तु न क्वापि ग्रन्थे दृष्टः केवलं भण्यमानः श्रुतः, यथा -
सत्थोग्गहो उ तिविहो उक्कोसजहण्णमज्झिमो चेव । उक्कोसो सट्ठिहत्थो जहन्न नव सेस विच्चालो ।। इति गाथार्थः ।।२३।।
चक्रे० : उक्तमेवार्थं किञ्चित्सविशेषमाहुः - देव० : उक्तमेवार्थं किञ्चित्सविशेषमाह -
निट्ठीवणादकरणं असक्कहा अणुचियासणाई य ।
आययणमि अभोगो इत्थ य देवा उदाहरणं ।।५२।। चक्रे० : निष्ठीवनादेरकरणम्, आदिशब्दाद्दन्तधावनचरणक्षालनशरीरमलोज्झनादेरसत्कथा स्त्रीकथादिका तस्या अप्यकरणमिति योज्यम् । अनुचितासनादिश्च षष्ठीस्थाने