________________
१-देवतत्त्वम् गा-५१
* सङ्घाचारभाष्ये-२२ * संप्रति द्विदिस्थितैरपि मूलबिम्बस्य कियत्यवग्रहाद् देवा वन्दनीया इत्याशङ्कायां चतुर्थमवग्रहद्वारं गाथोत्तरार्द्धनाह -
नवकर जहन्नु सट्टिकर जिट्ठ मज्झुग्गहो सेसो ।। मूलबिम्बाद् नव हस्ताज्जघन्यो जघन्योऽवग्रहः, जघन्यतोऽप्युच्छ्वासनिश्वासादिनिताशातनापरिहाराय नवहस्तबहिःस्थितैर्देववन्दना कार्या, षष्टिश्च हस्तान् ज्येष्ठ उत्कृष्टोऽवग्रहः, तत्परत उपयोगासम्भवात्, मध्ये मध्यमे शेषो नवकरेभ्य ऊर्ध्वं षष्टेश्चार्वागवग्रहो मूलबिम्बवन्दनास्थानाभ्यन्तरालभूभाग इति । अन्यैः पुनादशभेदोऽयमुक्तः । तथा च पञ्चस्थानकेऽभिहितम् -
उक्कोससट्ठि- पंना- चत्ता- तीसा- दसट्ठ- पणदसगं ।
दस- नव- ति- दु- एग-द्धं जिणुग्गहं बारसविभेयं ।। ति। एतावता चार्धहस्तादारभ्य षष्टिहस्तेभ्यश्चार्वाग् गृहचैत्ये चैत्यगृहे वा यथा जिनबिम्बस्याशातना न भवति तथा यथासमयमवग्रहबहि:स्थितैरमिततेज:खेचरेश्वरवद् देववन्दना कार्येत्युक्तं भवति ।।२२।।
चक्रे० : ततश्च - देव० : ततश्च -
गुरुदेवुग्गहभूमीए जत्तओ चेव होइ परिभोगो ।
इट्ठफलसाहगो सइ अणिट्ठफलसाहगो इहरा ।।५१।। चक्रे० : गुरूणां देवस्य चावग्रहभूमौ यत्नत एवाशातनाभीरुतया संलीनाङ्गोपाङ्गत्वलक्षणं प्रयत्नेन भवति परिभोगो वैयावृत्त्य पूजाद्यर्थं निषदनोत्थानचङ्क्रमणादिरूप इष्टफलसाधको निर्वृतिप्रापकः । 'सय'त्ति सदा । इतरथाऽनिष्टफलसाधको दुर्गतिजनकः । अथ देवतत्त्वविचारणायां को नाम गुरोरिह प्रस्तावः ? सत्यमवग्रहसाम्यात्तदवग्रहप्रमाणं चैवम् -
आयप्पमाणमित्तो चउद्दिसिं होइ अवग्गहो गुरुणो ।
अणणुनायस्स सया न कप्पई तत्थ पविसेउं ।। [प्रव.सारो० १२६] ।।५१।। देव० : गुरवो धर्मोपदेशका आचार्यादयो देवश्चार्हस्तेषामवग्रहभूमिस्तस्या यत्नत आशातनाभीरुतया संलीनाङ्गोपाङ्गत्वलक्षणप्रयत्नेन, चेवेत्यवधारणे, परिभोगो वैयावृत्त्यपूजादिकृते निषदनोत्थानचङ्क्रमणादिरूप इष्टफलं निर्वृत्तिप्राप्तिलक्षणम्, तस्य साधको भवतीति योगः
१. गुरुदेवोग्गहभूमीए T,C गुरुदेवुग्गहभूमीइ P. K २. सय P. K ३. गुरुर्धर्मोपदेशको देवश्चाहँस्तयोः A