________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
अभ्यवहरणमोदनादेर्भक्तौषधफलादेश्च न विधेयम्, ४-चैत्ये चतुर्विधोऽप्याहारस्त्याज्य इत्युक्तं भवति, एतेन चोपभोगो निषिद्धः, तस्य सकृद् भोग्यत्वादन्तरुपयोगिरूपं वा परिभोगं निषेधयति, उपानही पन्नद्धे पादुके च न परिदध्यात्, ५-मैथुनं मिथुनकर्म सुरतं करस्पर्शादिकां हास्यक्रीडां नासेवेत, ६-स्वपनं भूमौ शय्यादिषु च न कुर्यात्, ७-निष्ठीवनं थूत्करणम्, दन्ताक्षिनखनासिकास्यशिरःश्रोतत्वगादिमलपङ्काद्युपलक्षणं चैतत्, ८-९ मूत्रोच्चारं लघुनीतिबृहन्नीतिं नाचरेद्, आभ्यां च वातपित्तत्वगस्थिरक्ताद्यपवित्रवस्तुनिषेधमाह, १०-द्यूतं चतुरङ्गशारिनालिकाष्टापदत्रिपदीनवत्रिकदुद्दागन्दुकादिकं वर्जयेज्जिनमन्दिरस्यान्तो देवगृहमध्ये। अत्र चैतै गाभिधानतृतीयाशातनाभेदैर्वृहद्भाष्योक्ता सप्रभेदाऽवज्ञादिकापञ्चप्रकाराऽप्याशातना प्रभावतीदेवीवत् त्याज्येति प्रदर्शितम्, समानजातित्वाद् मध्यग्रहण आद्यन्तयोरपि ग्रहणाच्च, तञ्च भाष्यम् - जिणभवणंमि अवण्णा पूयाइअणायारो तहा भोगो । दुप्पणिहाणं अचियत्ती एया आसायणा पंच ।। तत्थ अवन्नाऽऽसायण पल्हत्थियदेवपट्ठिदाणं च । पुडुपुडिपायपसारणदुट्ठासणसेवण जिणग्गे ।। जारिसतारिसवेसो जहा तहा जंमि तंमि कालंमि । पूयाइ कुणइ पुन्नो अणायरासायणा एसा ।। भोगो तंबोलाई कीरंतो जिणगिहे कुणइऽवस्सं । नाणाइयाण आयस्स सायणं तो तमिह वज्जे ।। रागेण व दोसेण व मोहेण व दूसिया मणोवित्ती । दुप्पणिहाणं भन्नइ जिणविसए तं न कायव्वं ।। धरणरणरुयणविगहातिरिबंधणरंधणाइ गिहकिरिया । गावीविज्जवणिज्जाइ चेइए चउऽणुचियवित्ती ।।
चक्रे० : निष्कारणमयत्नश्चाऽवग्रहपरिभोगेऽप्याशातनैव, इदमेव विवक्षवस्तावदवग्रहस्वरूपमाहुः -
देव० : तथा निष्कारणमयत्नतश्चावग्रहपरिभोगेऽप्याशातनैव, इदमेव विवक्षुस्तावदवग्रहस्वरूपमाह -
सत्थावग्गहु तिविहो उक्कोसजहन्नमज्झिमो चेव ।
उक्कोस सट्ठिहत्थो जहन्न नव सेस विञ्चालो ।।५०।। चक्रे० : पाठसिद्धा, नवरं 'सत्थावग्गहु' त्ति शास्त्युपदिशति तत्त्वमिति शास्ता तीर्थकृत् तस्यावग्रह आभाव्यभूप्रदेशः ।।५० ।।
देव० : शास्त्युपदिशति तत्त्वमिति शास्ता तीर्थकृत्, तस्यावग्रह आभाव्यभूप्रदेशस्त्रिविधस्त्रिप्रकारो भवतीति शेषः, त्रैविध्यमेवाह-उत्कृष्टो जघन्यो मध्यमश्चैवेति समुच्चये, कः कियानित्याह-उत्कृष्टः षष्ठिहस्तो, विभक्तिलोपाज्जघन्यो नवत्ति हस्तशब्दलोपानवहस्तः, शेषोऽनयोर्मध्यवर्ती 'विच्चालो'त्ति देश्यो मध्यम इत्यर्थः, इति गाथार्थः ।।५० ।।