SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ १-देवतत्त्वम् गा-४८, ४९ चक्रे० : चैत्यवन्दनासङ्ख्याविधिरुक्तः, स च प्रायो जिनगृहे कार्य इति सम्बन्धेन तद्गतमेव विधिविशेषोपदेशमाहुः - देव० : यावत्कृत्वश्चैत्यवन्दना विधेयेत्यभिहितम, सा च प्रायो जिनवेश्मनि कर्तव्येति सम्बन्धेन तद्गतमेव विधिशेषोपदेशमाह - जिणमंदिरभूमीए दसगं आसायणाण वज्जेह । जिणदव्वभक्खणे रक्खणे य दोसे गुणे मुणह ।।४८।। चक्रे० : स्पष्टा, नवरं चकारादुपेक्षणे चेति ज्ञेयम् ।।४८।। देव० : जिनमन्दिरभूमावर्हद्गृहजगत्यामायं सम्यक्त्वादिलाभं शातयन्तीत्याशातनास्तासां दशकं वर्जयत परिहरत । तथा जिनद्रव्यभक्षणे रक्षणे च यथासङ्ख्यं दोषान् गुणांश्चकारादुपेक्षणे दोषान्मुणतावबुध्यध्वमिति गाथार्थः ।।४८।। चक्रे० : किं तदाशातनादशकमित्याहुः - देव० : किं तदाशातनादशकमित्याह - तंबोल-पाण-भोयणोपाणह-थीभोग-सुयण-निट्ठवणं। मुत्तुञ्चारं जूयं वज्जे जिणमंदिरस्संतो ।।४९।। चक्रे० : प्रतीतार्था, केवलमुपलक्षणमेतत्पर्यस्तिकाचसूरिचिहुरविचरणचरणप्रसारणावष्टम्भाट्टहासखिङ्गचेष्टादिकमपि वर्जनीयम् ।।४९।। देव० : ताम्बूलं च प्रतीतम्, पानं च जलादेः, भोजनं चाभ्यवहार, उपानहौ च पादुके, स्त्रीभोगश्च मैथुनम्, स्वपनं च शयनम्, निष्ठीवनं च खेलश्लेष्माधुज्झनमिति समाहारस्तथा मूत्रं च प्रश्रवणमुचारश्च वर्चः, समाहारोऽत्रापि, द्यूतं दुरोदरमुपलक्षणं चैतत्पर्यस्तिकाचसूरिचिहूरविचरणचरणप्रसारणावष्टम्भाट्टहासखिङ्गचेष्टादेवर्जयेत्परिहरेज्जिनमन्दिरस्यान्तर्मध्ये । इह चतुरशीत्याशातनाः केचनामनन्ति, तथाहि - खेलं-केलि-कलिं-कला-कुललयं-तंबोल-मुग्गालयम्, गाली-कंगुलिया-सरीरधुवणं-केसे-नहे-लोहियम् । १. दोसगुणे T.C २. निट्ठयणं A.P.K ३. मंदिरभूमीएस्संतो P.K
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy