SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम च दिनान्तावश्यकम्, स्वपनं च शयनम्, प्रतिबोधश्चोत्थानम्, तेषां कालस्तत्र भवं प्रतिक्रमणस्वपनप्रतिबोधकालिकं सप्तधा यतेश्चैत्यवन्दनं भवतीति योगः । गृहिणः पुनस्त्रयः पञ्चसप्त वा वारा एतद्गाथानुसारतोऽवसेयाः, तथाहि - पडिकमओ गिहिणो वि हु सत्तविहं पंचहा उ इयरस्स । होइ जहन्नेण पुणो तीसु वि संझासु इय तिविहं ।। [प्रव.सारो० ९१] इति गाथार्थः ।।४७।। * प्रवचनसारोद्धारे-९० * तत्र साधूनामहोरात्रमध्ये कथं तत्सप्तवारा भवतीत्याह - पडिक्कमणे चेइहरे भोयणसमयंमि तह य संवरणे । पडिक्कमणे सुयण-पडिबोहकालियं सत्तहा जइणो ।। 'पडिक्कमणे'त्यादि, १-प्राभातिकप्रतिक्रमणपर्यन्ते, २-ततश्चैत्यगृहे, तदनु ३-भोजनसमये, तथा चेति समुच्चये ४-भोजनानन्तरं च संवरणे संवरणनिमित्तं प्रत्याख्यानं हि पूर्वमेव चैत्यवन्दने कृते विधीयते, तथा ५-सन्ध्यायां प्रतिक्रमणप्रारम्भे, तथा ६-स्वापसमये, तथा ७-निद्रामोचनरूपप्रतिबोधकालिकं च सप्तधा चैत्यवन्दनं भवति, यते॥तिनिर्देशादेकवचनं यतीनामित्यर्थः ।।१०।। * यतिदिनचर्यायाम्-६३ * अथ चैत्यनमस्करणप्रस्तावात् साधोः कियन्ति चैत्यवन्दनानीत्याह - पडिकमणे चेइहरे भोअणसमयंमि तहय संवरणे । पडिकमण सुअण-पडिबोहकालियं (इय) सत्तहा जहणो ।। साधोः प्रथमा चैत्यवंदना प्रतिक्रमणे रात्रिप्रतिक्रमणे, द्वितीया चैत्यगृहे जिनभवने, तृतीया भोजनसमये चारवेलायां, चतुर्थी संवरणे कृतभोजन: साधुः सततं चैत्यवंदनं करोति, पञ्चमी प्रतिक्रमणे दैवसिकप्रतिक्रमणे, षष्ठी शयने संस्तारककरणसमये, सप्तमी प्रतिबोधकाले निद्रापरित्यागे, एताः सप्त चैत्यवन्दना यतिनो ज्ञातव्याः, यदाहुः - साहूणं सत्त वारा होइ अहोरत्तमज्झयारंमि । गिहिणो पुण चियवंदण तिय पंच य सत्त वा वारा ।। पडिकमओ गिहिणोऽवि हु सत्तविहं पंचहा उ इयरस्स । होइ जहन्नेण पुणो तीसुवि संझासु इय तिविहं ।।६३।। १. पडिकमणो A
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy