________________
१-देवतत्त्वम् गा-४६, ४७
चक्रे० : समाप्तश्चैत्यवन्दनाविधिरधुना स एव कस्य कतिवारा भवतीत्याहुः - देव० : अवसितश्चैत्यवन्दनाविधिरधुना स एव कस्य कतिवारा भवतीत्याह
साहूण सत्तवारा होइ अहोरत्तमज्झयारम्मि ।
गिहिणो पुण चिइवंदण तिय पंच व सत्त वा वारा ।।४६।। चक्रे० : सुगमा ।।४६।। देव० : सुगमा ।।४६।।
* प्रवचनसारोद्धारे-८९ * ननु ज्ञातस्तावञ्चारुचैत्यवन्दनविधिः, परमेवंविधविधिविशुद्धं चैत्यवन्दनमहोरात्रमध्ये साधुभिः श्रावकैश्च कियतीर्वारा विधीयत इति ?, तत्राह -
साहूण सत्तवारा होइ अहोरत्तमज्झयारंमि ।
गिहिणो पुण चिइवंदण तिय पंच य सत्त वा वारा ।। "साहूण सत्त वारे 'त्यादि, साधूनां सप्तवारा अहोरात्रमध्ये भवति चैत्यवन्दनम्, गृहिणः श्रावकस्य पुनश्चैत्यवन्दनं प्राकृतत्वाल्लुप्तप्रथमैकवचनान्तमेतत् तिस्रः पञ्च सप्त वा वारा इति ।।८९।।
चक्रे० : अथ कथं यतेः सप्तवाराश्चैत्यवन्दनेत्याहुः - देव० : अथ कथं यतेः सप्तवाराश्चैत्यवन्दनेत्याह -
पडिकमणे चेइयहरे भोयणसमयंमि तह य संवरणे ।
पडिकमण-सुयण-पडिबोहकालियं सत्तहा जइणो ।।४७।। चक्रे० : एषाऽपि प्रकटैव, नवरं 'पडिबोह'त्ति प्रतिबोधः प्रातरुत्थानम्, गृहिणः पुनस्त्रयः पञ्च सप्त वा वारा एतद्गाथानुसारतः ज्ञेयास्तथाहि -
पडिक्कमओ गिहिणो वि हु सत्तविहं पंचहा उ इयरस्स ।
होइ जहनेण पुणो तीसु वि संझासु इय तिविहं ।। [प्रव.सारो० ९१] ।।४७ ।। देव० : प्रतिक्रमण इत्युक्तेऽपि प्रतिक्रमणान्त इति दृश्यम्, ततश्च प्रतिक्रमणान्ते, प्रातरावश्यकान्ते, चैत्यगृहे जिनमन्दिरे, भोजनसमये जेमनकाले, तथा चेति समुच्चये, संवरणे समयशब्दस्याऽत्रापि सम्बन्धाद्भोजनोर्ध्वं प्रत्याख्यानसमये विधीयमानमिति शेषस्तथा प्रतिक्रमणं
१. चियवंदण P वंदणगं K