________________
३०
भो भव्याः ! विलोक्यतां मिथ्यात्वमहादोषस्यैकस्यैव प्रबलबलवत्ताम् । यथैकेनैव प्रचण्डसुभटेन महौजस्विना तेजस्विना दुर्धर्ष - स्कन्धबलभृता बहुतुरग-मातङ्ग- पत्तिदलकलितोऽपि भूपालो निरुध्यते तथैकेनैव मिथ्यात्वदोषेण ज्ञान-दर्शन- चारित्र - दानशील-तपो-भावनादिसाध्याऽनन्तज्ञान-दर्शन- सुख-वीर्यमयी सिद्धिरागच्छन्ती हेलयैव
निरुध्यते ।
'मन्नह जिणाण आणं' स्वाध्यायः
33
"अंतिमकोडाकोडीइ, सव्वकम्माण आउवज्जाणं ।
पलिआसंखिज्जइमे, भागे खीणे हवइ गंठी ।। ४२ ।।
34
गंठित्ति सुदुब्भेओ, कक्खड - घण - रूढ - गूढगंठि व्व । जीवाण कम्मजणिओ, घणराग-द्दोसपरिणामो ||४३|| "
[वि. भा. - १९९४, ११९५,]
35
"इत्तिअरूवं च इमे पत्ता, सव्वे अणंतसो जीवा ।
किं तु अउन्ना पुणरवि, परिवडिऊणं गया मूले ।। ४४ ।।
36
बद्धा (बंधिउं ?) उक्कोसठिई, कम्माण पुणो वि संकिलट्ठेहिं ।
भमिहं (हिं ? ) ति भवमभव्वा, एवं पुरओ वि सयकालं ।। ४५ ।। "
यद् बहुशोऽप्यनन्तशोऽपि इतीमं ग्रन्थिं यथाप्रवृत्तिकरणेन कर्म क्षपयित्वा जीवाः समागच्छन्ति, ततश्च मिथ्यात्वप्राबल्यात्प्रतिनिवृत्ताः सिद्धिपुर्यगोचरा भवन्ति । अनादिकालपरिचितमागामिकालसुखधर्मप्रत्यूहविधाय्यपि गुर्वादिभिस्त्याजिना अपि कथमपि न त्यजन्ति जीवाः । आजन्मावधिमहादारिद्रबलप्राप्तद्रमकखपरमिव ।
33. अन्त्यकोटीकोट्याः सर्वकर्माणामायुर्वर्जानाम् । पल्यासंख्याततमे भागे क्षीणे भवति ग्रन्थिः ।। 34. ग्रन्थिरिति सुदुर्भेदः कर्कश - घन - रूढ - गूढग्रन्थिरिव । जीवानां कर्मजनितो घनरागद्वेषपरिणामः ।। 35. एतावद् रूपं च इमे प्राप्ताः सर्वेऽनन्तशो जीवाः । किन्तु अपुण्याः पुनरपि परिपत्य गता मूले ।। 36. बद्ध्वा उत्कृष्टस्थितीः, कर्माणां पुनरपि संक्लिष्टैः । भमिष्यन्ति भवमभव्याः, एवं पुरतोऽपि सदाकालः ।।