________________
मिच्छं परिहरह ~
मिथ्यात्वमूढाः केचन जीवाः प्रायो बहुशोऽपि नानाविधोपदेशरचनाभिर्बोध्यमाना अपि न प्रतिबोधमाप्नुवन्ति कथमपि । यदुक्तम् -
"अणुसिट्ठा य बहुविहं मिच्छद्दिट्ठी य जे नरा अहमा ।
बद्धनिकाइअकम्मा सुणंति धम्मं न य करंति ।।३७।।" [उपदेशमाला-२१५] मिथ्यात्वग्रस्तानां चक्रवर्तिपदव्यपि न श्रेयस्करी । यतः कलिकालसर्वज्ञबिरुदभृत्प्रभुश्रीहेमचन्द्रसूरिज्ञापितपूर्वभवसम्बन्धेन श्रीकुमारपालराज्ञा श्रीसम्यक्त्वमूलश्रीजिनधर्मार्थिना श्रीजिनवन्दनप्रार्थनावसरे प्रोक्तम् -
"जिनधर्मविनिर्मुक्तो, मा भूवं चक्रवर्त्यपि ।
स्यां चेटोऽपि दरिद्रोऽपि, जिनधर्माधिवासितः ।।३८।। [योगशास्त्र-३/१४०] सर्वेऽप्यतिचारा मनोवचःकायकृताः प्रतिक्रमणीयतयोक्तास्तथाऽपि मुख्यतया चतुर्णामेव प्रतिक्रमणतयोक्तेः श्रीआवश्यके प्रतिक्रमणसंग्रहिण्याम् -
"मिच्छत्तपडिक्कमणं तहेव असंजमे पडिक्कमणं । कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं ।।३९।। संसारपडिक्कमणं चउब्विहं होइ आणुपुब्बीए । भावपडिक्कमणं पुण तिविहं तिविहेण नायव्वं ।।४०।।
मिच्छत्ताइ न गच्छइ न य गच्छावेइ नाणुजाणेइ । - जं मणवयकाएहिं तं भणि भावपडिक्कमणं ।।४१।।"
[आवश्यकनियुक्ति-१२५०, १२५१, वृत्ति]
31
29. अनुशिष्टाश्च बहुविधं मिथ्यादृष्टयश्च ये नरा अधमाः । बद्धनिकाचितकर्माणः शृण्वन्ति धर्मं न च कुर्वन्ति ।। 30. मिथ्यात्वप्रतिक्रमणं तथैवासंयमे प्रतिक्रमणम् । कषायाणां प्रतिक्रमणं योगानां चाप्रशस्तानाम् ।। 31. संसारप्रतिक्रमणं चतुर्विधं भवत्यानुपूर्व्या । भावप्रतिक्रमणं पुनस्त्रिविधं त्रिविधेन ज्ञातव्यम् ।। 32. मिथ्यात्वादि न गच्छति न च गमयति नानुजाणति । यद् मनवचनकायैस्तद् भणितं भावप्रतिक्रमणम् ।।