________________
मिच्छं परिहरह
~~~~~
~~~~~~~~ २७
1
आयरेणं । अहवा मया एअं जिणबिंबं कारिअं मम पुव्वपुरिसेहिं वा; ता इत्थ पूआइअं पवत्तेमि । किं मम परकीएसु अच्चायरेणं । एवं च तस्स न सव्वन्नुपच्चयावत् । अन्ना सव्वे व बिंबेसु अरिहं चेव ववइसिज्झइ । सो अरिहा जइ परकीओ ता पत्थरलेप्पपित्तलाईअं अप्पणिज्जयं, न पुण पत्थराईसु वंदिज्जमाणेसु कम्मक्खओ हुज्जा । किंतु तित्थयरगुणपक्खवाएणं । अन्नहा संकराइबिंबेसु पाहणाइसब्भावो तेसु वि वंदिज्जमाणेसु कम्मक्खओ होज्जा ।
मच्छरेण वा परकारिअचेइआलए विग्घमायरंतस्स महामिच्छत्तं, न तस्स गंट्ठिओ वि संभाविज्जइ । जे अ पासत्थाइकुदेसणाए वि मोहिआ सुविहिआणं बाहारा भवंति वि तहेव । जे वा जाइणाइपक्खवाएणं साहूणं दाणाइसु पयट्टंति, न गुणागुणचिंता, ते वि विवज्जासभायणं तम्हा गुणा पूअणिज्जा । ते चेव दाणाइसु पयट्टंति, तेण निमित्तं ai, किं तु जाइणाइपभिईहिं । जओ सजाईए निद्धम्मा वि अत्थि, नाईसु अ । ता तेसु दाणं महाफलं कहं हुज्जा । अह तेसिं गुण अत्थि, तहा वि ते वि अ पवित्तिनिमित्तं दाणाइसु कीरंतु न किंचि जाइसयणाइणा । एअंमि य विवज्जासरूवे मिच्छत्ते सइ सुबहं पि पढतो अन्नाणी चेव । न हि विवरीअमइणो नाणं कज्जसाहगं, तओ अन्नाणं तं । एएसु अ होंतेसु अइदुक्करा वि तवचरणकिरिआ न मुक्खसाहिगा । जम्हा सो जीवरक्खा25. मत्सरेण वा परकारितचैत्यालये विघ्नमाचरतो महामिथ्यात्वम् न तस्य ग्रन्थिभेदोऽपि सम्भाव्यते । ये च पार्श्वस्थादिकुदेशनयाऽपि मोहिताः सुविहितानां बाधकरा भवन्ति; तेऽपि तथैव । ये वा जातिज्ञातिपक्षपातेन साधूनां दानादिषु प्रवर्तयन्ति न गुणाऽगुणचिन्तया, तेऽपि विपर्यासभाजनम्, तस्माद् गुणाः पूजनीयाः । ते एव दानादिषु प्रवर्तन्ति तेन निमित्तं कृतं किं तु जातिज्ञातिप्रभृतिभिः । यतः सजात्या निर्धर्मा अप्यस्ति ज्ञातिषु च । तस्मात् तेषु दानं महाफलं कथं भवेत् ? अथ तेषां गुणोऽस्ति तथापि तेऽपि च प्रवृत्तिनिमित्तं दानादिषु कुर्वन्तु न किञ्चिज्जाति - स्वजनादिना । एतस्मिन् च विपर्यासरूपे मिथ्यात्वे सति सुबहं पठन्नप्यज्ञान्येव न हि विपरितमतेर्ज्ञानं कार्यसाधकम्, ततोऽज्ञानं तद् । एतेषु च सत्स्वतिदुष्करा अपि तपश्चरणक्रिया न मोक्षसाधिका, यतः स जीवरक्षामृषावादादिवर्जनं कुर्वाणोऽप्यविरतो कथ्यते ।
पञ्चमगुणस्थानके देशविरतिः षष्ठगुणस्थानके सर्वविरतिः न प्रथमगुणस्थानके, तस्य चानन्तानुबन्धिप्रमुखा षोडशापि कषाया बध्नन्त्युदयन्ति च तन्निमित्ताद् अशुभा दीर्धस्थितयस्तीवानुभागाः कर्मप्रकृतयो बध्नन्ति । तासां चोदयेन नरक - तिर्यञ्च-कुमनुष्यत्व- कुदेवगतिरूपः संसारो तन्निबन्धनानि च दुःखानि पृष्टतोऽनुसज्जन्ति । एतद् ज्ञात्वा भो भो महानुभावाः ! सम्यक्त्व - ज्ञान चरणेषु यतितव्यम्, तेषु बहुमानः कर्तव्यः ।