SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ २४ तथा 19 "जीवाइपयत्थेसुं, जिणोवइट्ठेसु जा असद्दहणा । सहणा वि अमिच्छा, विवरीअपरूवणा जाय ।। २१ । । ~~~~~~~~~~~~'मन्नह जिणाण आणं' स्वाध्यायः 20 संसयकरणं जंपि अ, जो तेसु अणायरो पयत्थेसु । तं पंचविहं मिच्छं, तद्दिट्ठी मिच्छद्दिट्ठी अ ।। २२ ।।" [ शतकप्रकरणभाष्य-८२, ८३, तथा - " पदार्थाना जिनोक्तानां, तदश्रद्धानलक्षणम् । एकान्तिकादिभेदेन, सप्तभेदमुदाहृतम् ।।२३।। क्षणिकोऽक्षणिको जीवः, सर्वथा सगुणोऽगुणः । इत्यादि भाषमाणस्य, तदैकान्तिकमुच्यते ।।२४।। सर्वज्ञेन विरागेण, जीवाजीवादिभाषितम् । तथ्यं न वेति संकल्पे, दृष्टिः सांशयिकी मता ।। २५ ।। आगमा लिङ्गिनो देवा, धर्म्माः सर्वे सदा समाः । इत्येषा कथ्यते बुद्धिः, पुंसो वैनयिकी जिनैः । । २६ ।। पूर्ण: कुहेतु - दृष्टान्ते-र्न तत्त्वं प्रतिपद्यते । मण्डलश्चर्मकारस्य, भोज्यं चर्मलवैरिव ।। २७।। अतथ्यं मन्यते तथ्यं, विपरीतरुचिर्जनः । दोषातुरमनास्तिक्यं, ज्वरीव मधुरं रसम् ।। २८ ।। दीनो निसर्गमिथ्यात्व - स्तत्त्वातत्त्वं न बुध्यते । सुन्दरासुन्दरं रूपं, जात्यन्ध इव सर्वथा ।।२९।। 19. जीवादिपदार्थेषु जिनोपदिष्टेषु याऽश्रद्धा । श्रद्धाऽपि च मिथ्या, विपरीतप्ररूपणा या च ।। 20. संशयकरणं यदपि च यस्तेषु अनादरः पदार्थेषु । तत्पञ्चविधं मिथ्यात्वं तद्दृष्टिः मिथ्यादृष्टिश्च ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy