________________
मिच्छं परिहरह
"जइलिंग-मिच्छदिट्ठी, गेविज्जा जाव जंति उक्कोसं ।
पयमवि असद्दहतो, सुत्तुत्तं मिच्छदिट्ठी उ ।।८।।" [बृहत्संग्रहणी-१५३] मिथ्यात्वं मोहनीयभेदः । मोहनीयं च सकलकर्मसु स्थित्यादिभिर्गुरुतरम्, यावन्मोहनीयं बृहत्स्थितिकं तावदपराण्यपि ज्ञानावरणादीनि कर्माणि बृहत्स्थितिकान्येव स्युः । यतो मोहनीयस्योत्कृष्टस्थितौ शेषाणामपि षण्णां उत्कृष्टैव, आयुषस्तु स्थितिरुत्कृष्टा वा मध्यमा वा । मोहनीयरहितानां शेषप्रकृतीनामन्यतमायाम् उत्कृष्टस्थितिसद्भावे मोहनीयस्य शेषाणां चोत्कृष्टा मध्यमा वा न तु जघन्या । [किं 'सर्वथा न ? कस्याऽप्यायुर्लक्षणस्य कर्मणो जघन्या स्थितिः स्यात्, यथोत्कृष्टस्थितिकं ज्ञानावरणादि कर्म बध्नतस्तिरश्चो मनुष्यस्य वा जघन्यक्षुल्लकभवग्रहणाऽऽयुर्बन्धः । इत्येवं तावद् यथावगतं तथा व्याख्यातमिदं गाथाद्वयम्, परमार्थं त्विह केवलिनः, बहुश्रुता वा विदन्तीति ।।] श्रीआगमेऽपि -
"मोहस्सुक्कोसाए ठिईए, सेसाण छण्हमुक्कोसा ।
आउस्सुक्कोसा वा, मज्झिमिया वा न उ जहण्णा ।।९।। मोहविवज्जुक्कोसयठिईइ, मोहस्स सेसिआणं च ।
उक्कोस मज्झिमा वा, कासइ वजहण्णिआ हुज्जा ।।१०।।" [वि.भा.-११८९-११९०] मोहनीयकर्मक्षयश्चैकोनसप्ततिभिर्मोहनीयकोटाकोटिभिः क्षयमुपगताभिर्ज्ञानावरणीयवेदनीयाऽन्तरायाणामेकोनत्रिंशद्भिर्नाम-गोत्रयोरेकोनविंशतिभिः शेषकोटीकोट्याऽपि देशोनया मोहनीयक्षपणार्हो भवति । तथा च श्रीआचाराङ्गे -
मोहनीयस्य क्षयमुपशमं क्षयोपशमं वा विना न मिथ्यात्वक्षय उपशमः क्षयोपशमश्च । मिथ्यात्वक्षयाद्यभावे च नैकस्याऽपि श्रीसम्यक्त्वावाप्तिः । मोहनीयक्षय एव सर्वकर्मणामपि ५. कंसमध्ये [ ] लिखितः पाठः विशेषावश्यकवृत्तौ । 8. यतिलिङ्ग-मिथ्यादृष्टयो ग्रैवेयकान् यावद् यान्ति उत्कृष्टम् । पदमप्यश्रद्दधानः सूत्रोक्तं मिथ्यादृष्टिस्तु ।। 9. मोहस्योत्कृष्टायां स्थितौ शेषाणां षण्णामुत्कृष्टा । आयुष उत्कृष्टा वा मध्यमा वा न तु जघन्या ।। 10. मोहविव|त्कृष्टस्थितौ मोहस्य शेषाणां च । उत्कृष्टा मध्यमा वा कस्यचिद् वा जघन्या भवेत् ।।