________________
wwwar 'मन्नह जिणाण आणं' स्वाध्यायः
सर्वथाऽतिप्रबलमिथ्यात्वमोहनीयोदयादर्हत्प्रणीतवस्तुप्रतिपत्तिरूपा दृष्टिरसुमतो विपर्यस्ता, तथापि काचिन्मनुष्य-पश्वादिप्रतिपत्तिरविपर्यस्ता, ततो निगोदावस्थायामपि तथाभूताव्यक्त-स्पर्शमात्रप्रतिपत्तिरविपर्यस्ताऽपि स्यादन्यथाऽजीवत्वप्रसङ्गः । यदागमः -
"सव्वजीवाणं पि अ णं अक्खरस्स अणंतभागो निच्चुग्घाडिओ चिट्ठइ,
जइ पुण सो वि आवरिज्जिज्जा, तो णं जीवो अजीवत्तणं पाविज्ज त्ति ।।६।।" तथाहि, [समुन्नतातिबहलजीमूतपटलेन दिनकररजनिकरकरनिकरतिरस्कारेऽपि नैकान्तेन तत्प्रभानाशः सम्पद्यते] उक्तं च -
__“सुटु वि मेहसमुदए होइ पभा चंदसूराणं” इति । [नन्दीसूत्र पृ.१९५-२]
अन्यथा दिनरजनिविभागाभावप्रसङ्गः । एवमिहाऽपि प्रबलमिथ्यात्वोदयेऽपि काचिदविपर्यस्ताऽपि दृष्टिः स्यादिति तदपेक्षया मिथ्यात्वस्याऽपि गुणस्थानत्वम् । यद्येवं ततः कथमसौ मिथ्यादृष्टिरेव मनुष्यपश्वादिप्रतिपत्त्यान्ततो निगोदावस्थायामपि तथाभूताव्यक्तस्पर्शमात्रप्रतिपत्त्यपेक्षया वा सम्यग्दृष्टित्वादपि, नैष दोषः, यतो भगवत्प्रणीतं सकलमपि द्वादशाङ्गार्थमभिरोचयमानोऽपि यदि तद्गदितमेकमप्यक्षरं न रोचयति तदानीमप्येष मिथ्यादृष्टिरेवोच्यते, तस्य भगवति प्रत्ययनाशात् । तदुक्तम् -
“पयमक्खरं पि एक्कं पि जो न रोएइ सुत्तनिद्दिटुं ।
सेसं रोअंतो वि हु मिच्छद्दिट्ठी जमालिव्व ।।७।।" [बृ.भा.-१६७, रत्न-५०४] _ किं पुनर्भगवदर्हदभिहितसकलजीवाजीवादिवस्तुप्रतिपत्तिविकल इति । बृहत्संग्रहिण्यामपि -
३. 'तदेकमप्य०' हस्तप्रतौ । ४. बृहत्संग्रहिण्यां चतुर्थपादः 'मिच्छदिट्ठी मुणेयव्वो ।' इति दृश्यते । 5. सर्वजीवानामपि चाक्षरस्यानन्तभागो नित्योद्घाटितस्तिष्ठति, यदि पुनः सोऽप्यात्रियेत, ततो जीवोऽजीवत्वं __प्राप्नुयाद् इति । 6. सुष्ठ्वपि मेघसमुदाये भवति प्रभा चन्द्रसूर्ययोः । 7. पदमक्षरमप्येकमपि यो न रोचयति सूत्रनिर्दिष्टम् । शेषं रोचयमानोऽपि हि मिथ्यादृष्टिर्जमालिरिव ।।