________________
[मिच्छं परिहरह]
[२ मिथ्यात्वम् ]
“तैं ठाणं सो देसो सा य गई सा य जोणिआ नत्थि । भव्वाणमभव्वाणं जीआणं नत्थि मिच्छत्तं ।। १ ।। " “एस विसेसो नेओ, भव्वाणमणाइसंतयं होइ । अभविअ-जीआणं पुण होइ अणाईअमणंतं च ।।२।। " श्री आगमेऽप्युक्तम्
3
[विचारसप्ततिका-७३]
““मिच्छं अणाइऽनिहणं, अभव्वे भव्वे अ सिवगमाजुग्गे । सिवगे अणाइसंतं, साइ- संतंपि तं एवं ।। ३॥" अतो भविकाः ! प्रतिभवं प्रतिभवं परिशीलितमनादिकालाभ्यस्तं चिरपरिचितमपि मिथ्यात्वं परिहरत त्यजत । एतत्त्वनिष्टवियोगमिव त्यक्तमेव सकलजीवानां सुखसमृद्धि-धर्मवृद्धिहेतुर्भवति, नान्यथा । यदुक्तं श्रीउपासकदशाङ्गे सप्तमे श्री आवश्यके च । "समणोवासओ पुव्वामेव मिच्छत्ताओ पडिक्कमइ ।।४।।"
[ ]
ननु यद्येवंविधं मिथ्यात्वमनिष्टतरं सर्वेषां त्याज्यत्वेनोक्तत्वात्ततर्हि चतुर्दशगुणस्थानमध्ये गुणस्थानतया कथं गृहीतम् ?
" यस्य यत्र प्रभा नास्ति, पौरुषं तत्र तस्य किम् ।
हिमाचलप्रदेशेषु, शीतलाः किरणा रवेः ।।५।।"
सत्यम्, उच्यते - जीवेऽव्यवहारराशिवर्त्तिन्यनाद्यव्यक्तं मिथ्यात्वं सर्वदाप्यस्ति । यत्र यत्रापूर्व-अप्राप्त-गुणविशेषाविर्भावो भवति तत्तद्गुणस्थानमुच्यते । इत्युक्तेर्यद्यपि
१. 'अभव्वि' हस्तप्रतौ । २. 'यद्देवंविधं' हस्तप्रतौ ।
1. तत्स्थानं स देशः सा च गतिः सा च योनिका नास्ति । यत्र भव्यानामभव्यानां जीवानां नास्ति मिथ्यात्वम् ।। 2. एषो विशेषो ज्ञेयो भव्यानामनादिसान्तकं भवति । अभविकजीवानां पुनः भवत्यनादिकमनन्तं च ।।
3. मिथ्यात्वमनाद्यनिधनमभव्ये भव्ये च शिवगमनायोग्ये । शिवगेऽनादिसान्तं सादिसान्तमपि तदेवम् ।। 4. श्रमणोपासकः पूर्वमेव मिथ्यात्वात् प्रतिक्रमति ।