________________
mmmmmmm 'मन्नह जिणाण आणं' स्वाध्यायः
प्रव्रज्य सिद्धश्चात्र त्रयोविंशतितमश्रीजिनपार्श्वनाथस्य तीर्थे । इत्यादि श्रीमहावीरमुखाम्बुजाच्छ्रुत्वा गौतमोऽप्राक्षीत्- 'हे भगवन् ! किं निमित्तमनेन सावधाचार्येण दुःखमनुभूतम् ?' श्रीमहावीरेणोक्तम् 'हे गौतम ! तेन आचार्येण उत्सर्गापवादैरागमः स्थित इत्यादि यद्भणितं तन्निमित्तम् । यद्यपि प्रवचने उत्सर्गापवादावनेकान्तश्च प्रज्ञाप्यन्ते, तथाप्यप्कायपरिभोगस्तेजःकायसमारम्भो मैथुनसेवनं चैकान्तेन निषिद्धानि । इत्थं सूत्रातिक्रमादुन्मार्गप्रकटनं स्यात् । ततश्चाज्ञाभङ्गो भवति । तस्मादाज्ञाभङ्गादनन्तसंसारित्वं स्यात् ।' ततो गौतमोऽप्राक्षीत्-'किं तेन सावधाचार्येण मैथुनमासेवितम्?' ततः श्रीवीरेणोक्तम् - 'हे गौतम ! नो सेवितम्, किन्तु तेन वन्दमानार्यास्पर्श पादौ न सङ्कचितौ ।
'हे भगवन् ! तेन तीर्थंकरनामार्जितम्, एकभवावशेषीकृत आसीद्भवोदधिः, ततः कथमनन्तसंसारः ? वीरेणोक्तम् - 'हे गौतम ! निजप्रमाददोषात् तीर्थंकरनामकर्मार्जितमपि गतं तस्य, तस्मात् गच्छाधिपतिना सर्वदा सर्वार्थेष्वप्रमत्तेन भाव्यमिति । इति श्रीमहानिशीथपञ्चमाध्ययनाल्लिखितम् ।।
।। इति जिनाज्ञाभङ्गे सावधाचार्यकथानकम् ।।
[इइ मन्नह जिणाण आणं]