________________
मन्नह जिणाण आणं rrrrrrrrr
आत्मशङ्कितेन तेन चिन्तितम् - 'साध्वीवन्दनमेतैर्दृष्टमस्ति । एतैः सावधाचार्य इति नाम पुरापि कृतम् । साम्प्रतं तु यथार्थकथनेऽन्यदपि किमपि करिष्यन्ति । अन्यथा तु प्ररूपणे महत्याशातना अनन्तसंसारी च तथा स्यात् । तत्किं कुर्वे ? अथवा यद्भवति तद्भवतु, यथार्थमेव व्याकरोमी'ति ध्यात्वा व्याख्याता यथार्थगाथा । तैः पापैरुक्तम् - 'यद्येवं तर्हि त्वमपि मूलगुणहीनो यतः साध्व्यानया वन्द्यमानः स्पृष्टः ।' ततोऽयशोभीरुः स दध्यौ - 'किमुत्तरं ददे ? आचार्यादिना किमपि पापस्थानं न सेवनीयम् । त्रिविधत्रिविधेन यः सेवतेऽसावनन्तसंसारं भ्राम्यते ।' तैविलक्षं दृष्ट्वोचे 'किं न वक्ष्यसि ?' स दध्यौ'किं वदामि ?' ततस्तेन सुचिरं परितप्योक्तम् - 'अयोग्यस्य श्रुतार्थो न दातव्यः ।'
“मे घडे निहित्तं, जहा जलं तं घडं विणासेइ ।
इअ सिद्धंतरहस्सं, अप्पाहारं विणासेइ ।।१९।।" तैरूचे - 'किमसम्बद्धं भाषसे, अपसर दृष्टिपथात् । अहो ! त्वमपि सङ्घन प्रमाणीकृतोऽसि ।' ततस्तेन दीर्घसंसारीत्वमङ्गीकृत्योक्तम् - 'उत्सर्गापवादैरागमस्थितिं यूयं न जानीथ । एगंतं मिच्छत्तं, जिणाणमाणामणेगत्तं ।' तैर्हष्टैर्मानितं तद्वचः सप्रशंसम् । स एकवचनदोषेणानन्तसंसारित्वमुपााप्रतिक्रान्तो मृत्वा व्यन्तरो बभूव । च्युत्वोत्पन्नः प्रोषितपतिकायाः प्रतिवासुदेवपुरोहितदुहितायाः कुक्षौ । कुलकलंकभीताभ्यां पितृभ्यां निर्विषयीकृता । क्वापि स्थानमलभमाना दुर्भिक्षे कल्पपालगृहे दासत्वेन स्थिता । मद्यमांसदोहदोऽस्या जातः । बहूनां मद्यपानां भाजनेषूच्छिष्टं मद्यं मांसं च भुङ्क्ते । कांस्य-दूष्य-द्रवणाणि चोरयित्वान्यत्र विक्रीय मद्यमांसादिकं भुड्क्ते । गृहस्वामिना राज्ञो निवेदितम् । राज्ञा मारणाय प्रसूतिसमयं यावद्रक्षितुमर्पिता चाण्डालानाम् । अप्रसूता न हन्यते, इति तत्कुलधर्मात् । प्रसूता सती बालकं त्यक्त्वा नष्टा । राज्ञा पञ्चसहस्रद्रव्यदानेन बालः पालायितः । क्रमात् शून्याधिपतौ स एव तद्गृहे स्वामी कृतः ।
पञ्चशतानामीशः मृत्वा सप्तमपृथिव्यां त्रयस्त्रिंशत्सागरायुः । उद्धृत्यान्तरद्वीपे एको रुकजातिर्जातः । मृत्वा महिषो जातः षड्विंशतिवर्षायुः । ततो मनुष्यः, ततो वासुदेवः, ततः सप्तम्यां नरकपृथिव्यां नारकी, ततो गजकर्णो मनुष्यो मांसाहारी मृत्वा सप्तम्यां गतो प्रतिष्ठाने नरकावासे, ततो महिषः, ततो बालविधवाबन्धकीब्राह्मणसुताकुक्षौ उत्पन्नः । गर्भशातनपातनक्षारचूर्णयोगैरनेकव्याधिपरिगतो गलत्कुष्टी कृमिभक्ष्यमाणो गर्भान्निर्गतः । लोकैनिन्द्यमानः क्षुधा पीडितो दुःखी सप्तवर्षशतानि द्वौ मासौ चत्वारि दिनानि जीवित्वा मृतो व्यन्तरेषूत्पन्नः । ततः शून्याधिपो मनुष्यः, ततः सप्तम्याम् । ततश्चाक्रिकगृहे वृषभो जातः ।' वाह्यमानः क्वथितस्कंधपृष्टिर्मुक्तः, काक-कृमि-श्वानादिविलुप्यमान एकोनत्रिंशत्वर्षायुम॒तो बहुव्याधिमान् इभ्यपुत्रः, वमनविरेचनादिदुःखैरेव तस्य गतो मनुष्यभवः । एवं चतुर्दशरज्ज्वात्मकं लोकं जन्ममरणैः परिपूर्यानन्तकालेनापरविदेहे मानुषोऽभवत् । तत्र लोकानुवृत्त्या गतस्तीर्थंकरवन्दनाय प्रतिबुद्धः,
83. आमे घटे निहितं यथा जलं तं घटं विनाशयति । इति सिद्धान्तरहस्यमल्पाधारं विनाशयति ।।