________________
१६
यतः - 81
"रूसउ सज्जण हसउ, जण निन्दउ दुज्जणलोअ ।
जिणवर आण वहंतडा, जं भावइ तं होउ ।।१७।। "
[
मन्नह जिणाण आणं' स्वाध्यायः
]
दत्तो यथा महेभ्योऽतीव सुखी जातः, एवमन्योऽपि द्रव्यभावाभ्यां सुखी भवतीह लोकेऽपि । इत्थं च मुग्धहसितेष्ववधीरणाकृद्दत्तो बभूव भवनं विभवोच्चयस्य ।
तत्सत्क्रियां विदधतो निरवद्यरूपां मा तान्यजीगणत भव्यजनाः ! कदाचित् ।। ।। इति पितुराज्ञापालने श्रेष्ठिकथा ।।
श्रीजिनाज्ञाविराधका ये स्युस्ते सर्वत्र सकलदुःखभाजो भवन्तीत्यर्थे श्रीसावद्याचार्यसम्बन्धः । ।। अथ जिनाज्ञाभङ्गे श्रीसावद्याचार्यकथा ।।
श्री वीरेणोक्तं श्रीगोतमस्य, हे गौतम ! अन्यथा प्ररूपणे, अस्या ऋषभादि- चतुर्विंशतिकायाः प्रागनन्तकालेन याऽतीता चतुर्विंशतिका तस्यां मत्सदृशः सप्तहस्ततनुर्धर्मश्रीनामा चरमतीर्थंकरो बभूव, तत्तीर्थे सप्ताश्चर्याण्यभूवन् । असंयतपूजायामनेकश्राद्धेभ्यो गृहीतद्रव्येण स्वस्वकारितचैत्यनिवासिनोऽभूवन् । तत्रैको मरकतच्छविः कुवलयप्रभो नामाऽनगार उग्रविहारी महातपस्वी शिष्यगणवृतः समागात् । तैश्चैत्यवासिभिर्वन्दित्वोक्तम्, 'अत्रैकं वर्षारात्रिकं चतुर्मासकं तिष्ठन्तु, यथा त्वदाज्ञयानेके चैत्यालया भवन्ति । कुर्वस्माकमनुग्रहम् ।' तेनोक्तं, 'सावद्यमिदं नाहं वाग्मात्रेणाऽपि कुर्व्वे ।' तदैवं तेन भणता तीर्थंकर नामकर्म्मार्जितमेक-भवावशेषीकृतश्च भवोदधिः, ततस्तैः सर्वैर्लिङ्गिभिरेकमतं कृत्वा तस्य सावद्याचार्य इतना कृतम् । तथापि न तस्येषदपि कोपोऽभूत् । अन्यदा तेषां लिङ्गमात्रप्रव्रजितानां मिथ आगमविचारो भूव । यथा-' श्राद्धानामभावे संयता एव मठदेवकुलानि रक्षन्ति पतितानि च समारचयन्ति । अन्यदपि यत्तत्र करणीयं तदारम्भे क्रियमाणे यतेरपि न दोषः ।' केऽप्याहुः - 'संयमो मोक्षनेता, ' केचिदूचु:'प्रासादावतंसके पूजासत्कारबलिविधानादिना तीर्थोत्सर्पणयैव मोक्षगमनम् ।' एवं तेषां यथेच्छं प्रलपतां विवादेऽन्य आगमकुशलः कोऽपि नास्ति, यो विवादं भनक्ति । सर्वैः सावद्याचार्य एव प्रमाणीकृतः । आकारितो दूरदेशात् । सप्तमासैर्विहरन् समागात् । एकयाऽऽर्यकया श्रद्धावशात्प्रदक्षिणीकृत्य झटिति पादयोर्मस्तकेन संघट्टयन्त्या ववन्दे । दृष्टस्तैलिंङ्गिभिर्वन्द्यमानः । अन्यदा तेन तेषामग्रे श्रुतार्थकथनेऽस्यैव महानिशीथपञ्चमाध्ययनस्य व्याख्यान आगतेयं गाथा -
82 अस्थित्थीकरफरिसं, अंतरिअं कारणे वि उप्पन्ने ।
अरहा विकरिज्ज सयं तं गच्छं मूलगुणमुक्कं । ।१८।।”
81. रुषतु सज्जनो हसतु जनो निन्दतु दुर्जनलोक: । जिनवराज्ञां वहतो यद् भावि तद् भवतु ।
82. यत्र स्त्रीकरस्पर्शम्, आन्तरिक कारणेऽपि उत्पन्ने । अर्हनपि कुर्यात् स्वयं, तद् गच्छं मूलगुणमुक्तम् ।।