________________
मन्नह जिणाण आणं
अद्भिर्गात्राणि शुद्ध्यन्ति, मनः सत्येन शुद्ध्यति ।
विद्यातपोभ्यां भूतात्मा, बुद्धिर्ज्ञानेन शुद्धयति । । ६ । । [ मनुस्मृति-५ / १०९]
तत्रैकः साधुर्दृष्टो मलमलिनगात्रः । तैरुक्तम् - 'हे मुनीश्वर ! आसन्नायां गङ्गायां नद्यां किं न स्नासि ?' मुनिराह - " महानुभागाः !
आत्मनदी संयमतोयपूर्णा सत्यावहा शीलतटा दयोर्मिः । तत्राभिषेकं कुरुपाण्डुपुत्र ! न वारिणा शुद्धयति चाऽन्तरात्मा ।।७।।
न मृत्तिका नैव जलं नाप्यग्निः कर्मशोधिनी । शोधयन्ति बुधाः कर्म ज्ञान - ध्यान - तपोजलैः ।। ८ ।।
नोदकक्लिन्नगात्रोऽपि स्नात इत्यभिधीयते । स स्नातो यो दमस्नातः स बाह्याभ्यन्तरे शुचिः ।।९।। चित्तं शमादिभिः शुद्धं वदनं सत्यभाषणैः । ब्रह्मचर्यादिभिः कायः शुद्धो गङ्गां विनाप्यसौ । । १० ।। गङ्गातोयेण सर्वेण मृत्पिण्डैश्च न " गोमयैः । अमृतैराचरेच्छौचं दुष्टभावो न शुद्ध्यति ।।११।।
नित्यं शुद्धः कारुहस्तः, पण्ये यच्च प्रसारितम् । ब्रह्मचार्यागतं भैक्ष्यं सर्वं शुद्धमिति स्थितिः ।। १२ । ।" [ मनुस्मृति-५/१२९]
~~~~
११
ते चत्वारोऽपि प्रतिबुद्धाः, मुनिदेशनामृतं निपीय दीक्षां जगृहुस्तत्पार्श्वे क्रमेणैकादशाङ्गीं पठन्ति स्म । ततो देवलोकं गताः । च्युताः सन्तो वयं चत्वारोऽपीह भ्रातरो जाताः । अधुना त्वया प्रतिबोधिता दीक्षां प्रतिपन्नाः, त्वमस्माकं गुरुः । श्रेष्ठी चिन्तयति - 'अहो ! भाग्यवन्त एते, यत एकदापि धर्मं श्रुत्वा प्रतिबुद्धाः, अहं त्वाजन्मसञ्जातधर्मश्रवणोऽपि तादृग् वैराग्यं न प्राप्तः । अधुना ममाप्येते गुरवः, ततः सर्वेऽपि मिलित्वा गुरुपार्श्वे दीक्षां प्रत्यपद्यन्त । तपसा ध्वस्तकर्ममलाः केवलज्ञानं प्राप्य भव्यान् प्रतिबोध्य मोक्षं प्रापुः ।
१५. 'गोयमैः' हस्तः ।
इत्थं ब्रह्मसेनश्रावको यथा साध्वादिसामग्र्याभावेऽप्यन्तरा दारिद्र - दुःखे पल्ल्यां पल्लीजनसंसर्गेऽपि धर्मं न तत्याज तथा ये धर्मं न त्यजन्ति तेषां तद्वन्मोक्षसौख्याप्तिः । इति प्रतिपन्नधर्माराधने श्रीजिनाज्ञाराधनम्, अत आज्ञापालनविषये ब्रह्मसेनसम्बन्धः ।
।। इति ब्रह्मसेनसम्बन्धः ।।