________________
मन्नह जिणाण आणं
VANANAVANAVANANAVANAVANAVANANAMAVATANAVANA
श्रेयस्कर जन्तुनाम् ।' ब्रह्मसेनेनोक्तम् - 'भोः ! कथं वेत्सि ?' स प्राह - ‘अवधिज्ञानादहं वेद्मि ।' ब्रह्मसेनेन पृष्टम् - 'हे उत्तम ! कदा उत्पन्नम् ?' क्षेमङ्करः प्राह - 'अधुनैव ।' ततो विस्मितो ब्रह्मसेनः, 'अहो ! धर्मस्य माहात्म्यम्,' पुनश्चिन्तयति 'किं श्राद्धानामपि एवं ज्ञानमुत्पद्यते ?' कौतुकं महत् । तत आह - 'षण्मासान्ते तव भ्रातुर्मरणं भविष्यतीति तत्सत्यं भविष्यति तदाऽहं पर्वतिथौ पौषधं निश्चयेन गृहीष्ये एव, कथमपि न मोक्ष्ये ।' मृतो भ्राता षण्मासान्ते । क्षेमङ्करस्य न शोको मनागपि ।
“किं देवः किमु देवता, किमगदो विद्यास्ति किं किं मणिः ; किं मन्त्रः किमुताश्रयः किमु सुहृत् किं वास्ति गन्धोऽस्ति सः । अन्ये वा किमु भूपतिप्रभृतयः सन्त्यऽत्र लोकत्रये;
यैः सर्वैरपि देहिनः स्वसमये कर्मोदितं वार्यते ।।१।।" पुनरपि -
"आपद्मयसंसारे क्रियते विदुषा किमापदि विषादः ।
कस्त्रस्यति लङ्घनतः प्रविधाय चतुष्पथे सदनम् ।।२।।" पुनरासन्नायां पर्वतिथौ तथैव पौषधं गृहीत्वा धर्ममुपदिशति । ततो ब्रह्मसेनेन पृष्टम् - 'भो क्षेमङ्कर ! तव शोकः किं न ?' स आह - 'शोकः कस्मात् क्रियते ? यतोऽयं देवलोके महान् देव उत्पन्नः सुखैकभाजनं यतोऽनेन रुचिरो धर्माराधितः, तेन न शोकः ।' ब्रह्मसेन आह - 'देवलोकगमने कः प्रत्ययः ?' क्षेमङ्करेणोक्तम् - 'अधुनैव स देव आगमिष्यति, मां नत्वा स्वर्णवृष्टिं करिष्यति मद्गृहे ।' एवं वदतामेव सुरस्तत्रागत्य नमस्करोति क्षेमङ्करपादान्, वक्ति च 'हे बान्धव ! त्वमेव सत्यबान्धवः, येन त्वया अहं बाढं धर्मक्रियां कारितः तत्प्रभावादहं देवलोके गतः ।' सर्वैरपि दृष्ट उपलक्षितश्च । ब्रह्मसेनस्य द्विःप्रत्ययात्पौषधे निश्चयोऽजनि गृह्णाति च पर्वतिथौ पौषधम् । ततः कालक्रमेणान्तरायकर्मोदयान्निर्धनो जातो ब्रह्मसेनः, निर्वाहोऽपि दुष्करोऽभूत्। लज्जते स्वजनादिमध्ये चिन्तयति च -
“वरं प्रविष्टं ज्वलिते हुताशने द्रुमालये पुष्पफलादिभोजनम् ।
तृणेषु शय्या वरं जीर्णवल्कलं न बन्धुमध्ये धनहीनजीवितम् ।।३।।" ततः पुरे निर्वाह कर्तुमक्षमः पल्लीं गत्वा वसति स्म । पल्लीशस्तस्य मानं ददाति । तत्र व्यवसायं कुर्वन् धनाढ्यो बभूव । ब्रह्मसेनः साध्वादिसामग्र्यभावेऽपि धर्मक्रियां पौषधं च न मुञ्चति । पौषधदिने हट्टे किमपि क्रयाणकंन लभन्ते लोकाः । ततो जनैरप्यवगतं यदयं पर्वतिथौ व्यवसायंन करोति, तेन [लोकाः] पर्वतिथिपूर्वदिने व्यवसायं कृत्वा तिष्ठन्ति । इतश्च केऽपि राज्ञः पुत्राश्चत्वारोदायादकर्षिता नंष्ट्वा तत्र पल्ल्यां समाजग्मुः । तेऽपि
१३. .....मेवांगांनमस्करोति' हस्त० ।