________________
'मन्नह जिणाण आणं' स्वाध्यायः
31
तत्थ य इदुब्बलेणं तव्विहाऽऽयरिअविरहओ वाव । अगहणत्तणेण य नाणावरणोदएणं च ।। २१ ।। हैऊदाहरणासंभवे अ सइ सुट्टु जं न बुज्झेज्जा । सव्वन्नुमयमवितहं तहा वि तं चिंतए मइमं ।। २२ ।।
अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा ।
जिअरागदोसमोहा य नन्नहावाइणो तेणं ।। २३ ।। " [ ध्यानशतक - ४५-४९/ श्रीभगवत्यामपि - 'तमेव सच्चं णीसंकं जं जिणेहिं पवेइयं ।' इत्युक्तेः श्रीजिनवचनोक्तं जिनवचनानुसारि च सर्वमाज्ञारूपत्वेन प्रतिपत्तव्यम् । एवंविधाज्ञाविकला याः क्रियाः क्रियन्ते तास्तामल्यादीनामिव त्र्युत्तरपञ्चदशशततापसादीनामिव चाज्ञानकष्टताख्यातिमाप्नुवन्ति । अत्र श्रीजिनप्रज्ञप्तधर्माराधने सम्बन्धः
-
"सामग्गिअभावे वि हु, वसणे वि सुहे वि तह कुसंगे वि ।
जस्स न हायइ धम्मो, निच्छयओ जाण तं सङ्कं ।।२४।।”
।। अथ ब्रह्मसेनकथा ।।
१२
वसन्तपुरे क्षेमङ्करः श्राद्धो बहुसिद्धान्तार्थविद् नवतत्त्ववेत्ता प्रायः पर्वतिथौ पौषधागारे श्राद्धैः पौधे गृहीते धर्मविचारं कथयति । अन्यदा पौषधे गृहीते बहुश्रावकसभायां धर्मं कथयतस्तस्यावधिज्ञानं समुत्पद्यते । ततो निजभ्रातुराभङ्करनाम्नस्तत्रोपविष्टस्य षण्मासावधिरायुर्दृष्टम् । ततः कथयति तस्य, 'हे भ्रातः ! प्रत्यहं पौषधमेव गृह ।' पुनः पुनर्बाढं कथयन् पौषधस्थेन केनाऽपि श्राद्धेन ब्रह्मसेननाम्ना सम उक्तः - 'हे क्षेमङ्कर ! तव भ्राता पुराऽपि उभयकालं षड्विधावश्यक - पर्वपौषधादि बहु कुर्वन्नस्ति । बाढं प्रत्यहमेवं कारयसि ? प्रत्यहमित्थं करणेऽस्य कुटुम्बस्य निर्वाहोऽपि कथं भवेत् ? ' ततः क्षेमङ्करः प्राह - 'भो ब्रह्मसेन ! अस्यायुः षण्मासा एव सन्ति, तेन बाढं पुण्यं कारयन्नस्मि । यतः पुण्यमेव
८. ‘॰हारिअविरहओ' हस्त० । ९. 'बुज्झिज्जा' हस्त० । १०. 'व्हावइणो' हस्त० । ११. 'समुत्पद्यत' हस्त॰ । १२. ‘गृह्णाहि’ हस्त० ।
31. तत्र च मतिदौर्बल्येन तद्विधाचार्यविरहतश्चापि । ज्ञेयगहनत्वेन च ज्ञानावरणोदयेन च ।।
32. हेतूदाहरणासम्भवे च सति सुष्ठु यन्न बुध्येत । सर्वज्ञमतमवितथं तथापि तचिन्तयेत् मतिमान् ।। 33. अनुपकृतपरानुग्रहपरायणा यज्जिना जगत्प्रवराः । जितरागद्वेषमोहाश्च नान्यथावादिनस्तेन ।।
34. सामग्र्यभावेऽपि तु व्यसनेऽपि सुखेऽपि तथा कुसङ्गेऽपि । यस्य न क्षिणोति धर्मो निश्चयतो जानीहि तं श्राद्धम् ।।