________________
मन्नह जिणाण आणं .~~
18
“रन्नो आणाभंगे, इक्कुच्चिय होइ निग्गहो लोए ।।
सव्वन्नुआणाभंगे, अणंतसो निग्गहं लहए ।। [सम्बोधसित्तरी - ४२] श्रीउपदेशमालायामपि - "'सव्वाओगे जह कोइ, अमच्चो नरवइस्स घित्तूणं ।
आणाहरणे पावइ, वहबंधणदव्वहरणं च ।। तह छक्कायमहब्बय-सव्वनिवित्तीउ गिण्हिऊण जई ।
एगमवि विराहतो, अमच्चरन्नो हणइ बोहिं ।। [उपदेशमाला - ४३०-४३१] श्रीजिनाज्ञा सम्यगेकाग्रचित्ततया प्रतिपाल्यमानाऽस्मिन्नपि जन्मनि भूत-प्रेत-शाकिन्याधुपद्रवविद्रावणे जीवानां मन्त्राक्षरसमतां बिभर्ति । यदुक्तं श्रीअभयदेवसूरिपादैः -
""तुह आणा थंभेइ भीमदप्पुद्धरसुरवर-; रक्खसजक्खफणिंदविंदचोराऽनलजलहर । जलथलचारि-रउद्द-खुद्द-पसु-जोइणि-जोइय;
इय तिहुअणअविलंघिआण ! जय पास ! सुसामि ! य ।।९।।" [जय. -६] श्रीजिनाज्ञा अतिगहनस्वरूपा सूक्ष्मशेमुषीगम्या न स्वल्पहार्दमतिग्राह्या । तेन तज्ज्ञातारः सम्यक्तया स्तोका एव पुमांसोऽस्मिन् काले । ततोऽज्ञाता सती कथमाराध्यते निषेव्यते प्रतिपाल्यते च जनैः ? तदनाराधकाश्च किमप्यैहिकं पारलौकिकं च कर्म न साधयन्ति, येन सकलजनश्लाघ्याः स्तोष्याश्च स्युः, किन्तु सर्वेषां शोचनीयाः, निन्दनीयाः, गर्हणीया एव भवन्ति । ज्ञात्वा पुनः सम्यग् नाराधयन्ति तेऽपि तथाविधा एव ज्ञेयाः । यदवाद्युपदेशमालायाम् -
16. राज्ञ आज्ञाभङ्गे एक एव भवति निग्रहो लोके । सर्वज्ञाज्ञाभने अनन्तशो निग्रहं लभते ।। 17. सर्वयोगान् यथा कश्चिदमात्यो नरपतेर्गृहीत्वा । आज्ञाहरणे प्राप्नोति वध-बन्धन-द्रव्यहरणं च ।। 18. तथा षटकायमहाव्रतसर्वनिवृत्तीः गृहीत्वा यतिः । एकमपि विराधयन् अमर्त्यराज्ञो हन्ति बोधिम् ।। 19. तव आज्ञा स्तम्भयेद् भीम-दर्पोक्षुरसुरवर-राक्षस-यक्ष-फणीन्द्रवृन्द-चौराऽनल-जलधर- ।
जलस्थलचारि-रुद्रक्षुद्र-पशु-योगिनी-योगिनः; इति त्रिभुवनाविलचिताज्ञ ! जय पार्श्व ! सुस्वामिन् ! च ।।