________________
मन्नह जिणाण आणं
NNNNNNNNNNNNNNN
३
सर्वेषां जिनधर्मकार्याणां मुख्यतरं प्रधानकारणम् आजैव । यतः - "आणाइ तवो आणाइ, संजमो तह य दाणमाणाए ।
आणारहिओ धम्मो, पलाल-पूल व पडिहाइ ।।३।।" [सम्बोधसित्तरी - ४०] कैश्चिद् देशोनपूर्वकोटिप्रमाणकालं यावच्चारित्रं प्रतिपाल्यतेऽभव्यादिभिरिव तथापि न परमपदप्राप्त्यादिफलसिद्धिः, कैश्चिच्च स्वल्पकालमपि चारित्रमाराध्यते गजसुकुमालादिभिरिव तेषां तत्क्षणादेव समीहितार्थसिद्धिः स्यात्, तत्र कारणं केवलं जिनाजैव । यतः -
"आणाइ च्चिअ चरणं, तब्भंगे जाण किं न भग्गं ति ? ।
आणं च अइक्कतो, कस्साएसा कुणइ सेसं ? ।।४।।" [उपदेशमाला - ५०४] श्रीजिनाज्ञाराधिता विराधिता चाऽऽयतिफलदैव । यतः - "नय-गम-भंगपहाणा विराहियाऽऽराहिआ वि सपमाणा । भव-सिवदाणसमाणा जिणवरआणा चिरं जयउ ।।१।।" (इक्कुञ्चिय तुह आणा दुहं सुहं देइ सामियाणंतं । इक्कावि मेहबुट्ठी विसं व अमिअं व पत्तगुणा ।।२।। भमिओ भवो अणंतो तुह आणाविरहिएहिं जीवेहिं । पुण भमियब्बो तेहिं जेहि न अंगीकया आणा ।।३।। जो न कुणइ तुह आणं सो आणं कुणइ तिहुअणस्सावि । जो पुण कुणइ जिणाणं तस्साणा तिहुअणे देव ! ।।४।।
१. 'मुणीण भणिओ तहा असारो' सम्बोधप्रकरणे । 3. आज्ञया तप आज्ञया संयमस्तथा च दानमाज्ञया । आज्ञारहितो धर्मः पलालप्रचय इव प्रतिभाति ।। 4. आज्ञयैव चरणं, तद्भङ्गे जानीहि किं न भग्नमिति ? । आज्ञां चातिक्रान्तः कस्यादेशात् करोति शेषम् ? ।। 5. नयगमभङ्गप्रधाना विराधिताऽऽराधिताऽपि सप्रमाणा । भव-शिवदानसमाना जिनवराज्ञा चिरं जयतु ।।१।। 6. एक एव तवाऽऽज्ञा दुःखं सुखं ददाति स्वामिक ! अनन्तम् । एकाऽपि मेघवृष्टिः विषं वाऽमृतं वा पात्रगुणात् ।।२।। 7. भ्रान्तो भवोऽनन्तस्तव, आज्ञाविराधकैः जीवैः । पुनः भ्रमितव्यस्तैः यैः नाङ्गीकृताऽऽज्ञा ।।३।। 8. यो न करोति तवाज्ञां सो आज्ञां करोति त्रिभुवनस्यापि । यः पुनः करोति जिनाज्ञां तस्याज्ञा त्रिभुवने देव ! ।।४।।