________________
।। अथ प्रथमगाथाव्याख्याने प्रबोधदीपिकायां प्रथमः प्रस्तावः ।। मन्नह जिणाण आणं, मिच्छं परिहरह धरह सम्मत्तं । छब्बिह-आवस्सयंमि, उज्जुत्ता होह पइदिवसं ।।१।। [मन्यध्वं जिनानाम् आज्ञां मिथ्यात्वं परिहरत धारयत सम्यक्त्वम् । षड्विधाऽऽवश्यके उद्युक्ता भवत प्रतिदिवसम् ।।]
।
[मन्नह जिणाण आणं]
[१ - जिनाज्ञा
मन्यध्वं जिनानाम् आज्ञाम् अहो भव्याः । जिनानामाज्ञया यत्तदप्यनुष्ठानं विधीयमानं श्रेयस्करं स्यात् पापभरप्रणाशनं च स्यात् । यतः -
"थोवंपि अणुट्ठाणं, आणपहाणं हणेइ पावभरं ।
लहुओ रविकर-पसरो, दहदिसि तिमिरं पणासेइ ।।१।।" [आगम -अष्टोत्तरी-३०] आज्ञामुल्लंघ्य यदि षष्टाष्टमाद्यनेकविधमपि बहुतरतमकष्टानुष्ठानं विधीयते तदपि स्वमनोऽभीष्टकार्यसाधकं केवलं न स्यात् प्रत्युत संसारानन्तताहेतुश्च स्यात् । यतः -
"आणं सव्वजिणाणं, भंजइ दुविहं पहं अइक्कतो। आणं च अइक्कतो, भमइ जरामरणदुग्गंमि ।।२।।" [उपदेशमाला-४९९]
1. स्तोकमपि अनुष्ठानम् आज्ञाप्रधानं हन्ति पापभरम् । लघुको रविकरप्रसरो दशदिशि तिमिरं प्रणश्यति ।। 2. आज्ञां सर्वजिनानां भनक्ति द्विविधं पथमतिक्रान्तः । आज्ञां चातिक्रान्तो भ्रमति जरामरणदुर्गे ।।