________________
।। अर्हम् ।।
तपागच्छाधिपति पू.आ.श्रीमुनिसुन्दरसूरिशिष्य पू.आ. श्रीरत्नशेखरसूरिशिष्यपू.आ.श्रीजिनहंससूरिशिष्यपूज्यपंन्यासप्रवर-श्रीराजमाणिक्यगणिविरचितः
प्रबोधदीपिकावृत्तिसमलङ्कृतः पूर्वाचार्यविरचितः
"मन्नह जिणाण आणं" स्वाध्यायः
प्रथमान्तिम-जिनहंसानभिनम्य, सुलच्छिसलिलजलराशीन् । श्रीपुण्डरीक-गौतममुख्या-नखिलान् गणधरांश्च ।।१।।
श्रीअर्हदादिपदवीमदवीयसीं; येऽर्हत्सिद्ध-सूरिवर-वाचक-साधुमुख्याः । आराधिताः प्रददते भविकाङ्गभाजां; सर्वात्मना प्रमदतः प्रणिदध्महे तान् ।।२।।
प्राचीन-प्रविचक्षण-प्रगदित-ग्रन्थोक्त-युक्तिप्रथानानोदारकथाभिरेव विलिखे न प्रज्ञया स्वीयया । स्मृत्वा श्रीगुरुनामधामधिषणायाः संयत-श्राद्धयोराचारस्य सुवृत्तिमात्मकुतुकादन्योपकाराय च ।।३।।
मिच्छत्तविसपसुत्ता, सचेअणा वि न हुंति किं जीविणो । कन्नंमि कमइ जइ, कित्तियं पि तुह वयणमंतस्स ।। ८ ।। इत्युक्तेः -
1. मिथ्यात्वविषप्रसुप्ताः सचेतना अपि न भवन्ति किं जीविन: ? कर्णे क्रमति यदि कीर्तितमपि तव वचनमन्त्रम् ।।