________________
३५२
मन्नह जिणाण आणं' स्वाध्यायः
प्रभुर्न्यषेधयत् तत्र साधुसाध्वीकदम्बकम् । उदीच्यां दिशि गच्छन्तं स्वीकृतायां कुयोगिना ।। धर्मकर्मनियोगेन साध्वीयुगमगात् ततः । तत्र कासारसेतौ च तिष्ठन् योगी ददर्श तत् ।। ततः सन्मुखमागत्य लाघवादेकस्या मूर्ध्नि चूर्णं चिक्षेप ।
तस्य सा पृष्ठतो गत्वा पार्श्वे निविविशे ततः । वृद्धयोक्ता न चायाति धिक्कष्टं पूज्यलङ्घनम् ।। सा शीघ्रं श्रीगुरुपार्श्वे वृत्तान्तं व्यजिज्ञपयत् । सूरिराह मा विषीद । अत्र कार्ये वयं भलिष्यामहे । ततः कुशमयं तत्र पुत्रकं ते समार्पयन् । चतुर्णां श्रावकाणां च शिक्षित्वा तेऽप्यथो ययुः ।। निर्गत्य च बहिश्चेत्याच्छित्त्वा तस्य कनिष्ठिकाम् । तत्पार्श्वगाः करं तस्य ददृशुस्ते निरङ्गुलिम् ।। पृष्टः कस्मादिदं जातमकस्मादिति सोऽवदत् । ऊचे तैर्मुच्यतां साध्वी बहुप्रत्यूहकारिणी ।। अमानयति तां वाचं तत्र ते पुत्रकाङ्गुलिम् । द्वितीयां पश्यतस्तस्याछिन्दन् साऽप्यत्रुटद् द्रुतम् ।। तत आहुः अद्यापि साध्वीं मुञ्च, नो चेच्छिरः छेत्स्यामि ।
सम्यग्भीतस्ततः सोऽपि प्राह नीरेण सिच्यताम् । अस्याः शिरस्ततो यातु निजं स्थानमनाकुला ।। तथा कृते च तैः साध्वी तत्र साऽभूत् सचेतना । आगत्य च निजं स्थानं सा बालाऽऽलोचनां ललौ ।। ततो भीतो देशान्तरं ययौ योगी ।
इतः श्रीविक्रमादित्यः शास्त्यवन्तीं नराधिपः । अनृणां पृथिवीं कुर्वन् प्रवर्तयति वत्सरम् ।। वायटे प्रेषितोऽमात्यो लिम्बाख्यस्तेन भूभुजा । जनानृण्याय जीर्णं चापश्यच्छ्रीवीरधाम तत् ।। तत् स उद्दधार ।
संवत्सरे प्रवृत्ते षट्सु वर्षेषु पूर्वतः । गतेषु सप्तमस्यान्तः प्रतिष्ठां ध्वज- कुम्भयोः || श्रीजीवदेवसूरिभ्यस्तेभ्यस्तत्र व्यधापयत् । अद्याप्यभङ्गं तत्तीर्थममूदृग्भिः प्रतिष्ठितम् ।। इतश्च वायटे वणिग् मुख्यो लल्लः श्रेष्ठी अस्ति ।
महामहेश्वरः कोटिसंख्यद्रव्येण भास्वरः । महादानं मुदा सोऽदात् सूर्यग्रहणपर्वणि ।। तथा होमं समारब्धवता तेन यायजूकारुत्विजश्च बहवः समाहूताः । तानभ्यर्च्य होमः प्रावर्त्यत ।
तत्र कुण्डोपकण्ठेऽहिस्तदूर्ध्वस्थाम्लिकाद्द्रुमात् । धूमाकुलाक्षियुग्मोऽसौ फटत्फटिति चापतत् ।। आदातुमेष भोगीन्द्रः स्वयमागत आहुतीः । वाचालेषु द्विजेष्वेवं कोऽपि वह्नौ तमक्षिपत् ।।