________________
३५० rrrrrrror
wommmmmmmmmm 'मन्नह जिणाण आणं' स्वाध्यायः
सम्भाव्यम् ।' यतः सिद्धान्तादावाराधकतया ज्ञापिता: सन्त्यष्टधा । तथा हि -
"पावयणी धम्मकही, वाई नेमित्तिओ तवस्सी अ ।
विज्जा सिद्धो अ कई अटेव पभावगा भणिआ ।।" [प्रवचनसारोद्धार-९३४] वर्तमानकालोचितश्रीआगमज्ञाता धारकश्चतुर्विधश्रीसङ्घरूपतीर्थप्रवर्तकः श्रीसूरिः प्रावचनिक: । व्याख्यानलब्धिवान् सम्यक्ज्ञानप्रकाशनेन भव्यजीवप्रतिबोधको धर्मकथकः । कर्कशतरतमतर्कशास्त्रकुशल: प्रत्यक्षादिप्रमाणकुशलता-परवादिनिर्धीष्टन-राजसभालब्धजयपत्रो वादी, अत्र मल्लवादी दृष्टान्तः । अतीतानागताद्यष्टाङ्गनिमित्तवेत्ता महत्श्रीसङ्घकार्ये निमित्तप्रयुञ्जको नैमित्तिकः, अत्र बहवो वारत्तकादिसम्बन्धाः। पक्षक्षपण-मासक्षपणषाण्मासिकाष्टमासिक-सांवत्सरिकान्तानि विकृष्टतपांसि तेषां बलोत्पन्नसामर्थ्य: प्रभावकस्तपः शक्तिमान्, अत्र विष्णुकुमारादिसम्बन्धः । जाप-होमासनादिमहाकष्टः साधितोऽनेकमन्त्राद्याम्नायैर्विद्यावान्, आर्यखपुटादिसम्बन्धः । अञ्जनचूर्णादृशीकरणसुवर्णसिद्धि-निधिप्रगटीकरण-व्योमोत्पतन-पादलेपादिकाः जानाति, जिनगृहप्रतिमाश्रीसङ्घप्रौढकार्ये प्रकाशयति स सिद्धः, अत्र पादलिप्तसूर्यादिसम्बन्ध: । काव्यकलाकुशलो नानाविधशास्त्रनिष्पादननिपुणस्तद्वलेन राज्ञः प्रतिबोधश्रीसङ्घप्रौढकार्यसंसाधकः कविः, अत्र सिद्धसेनदिवाकरादिसम्बन्धः -
॥अथ श्रीजीवदेवसूरिसम्बन्धः ।। जगत्प्राणः पुरा देवो जगत्प्राणदायकः । स्वयं सदाऽनवस्थान: स्थानमिच्छन् जगत्यसौ ।। वायटाख्यं महास्थानं गुर्जरावनिमण्डनम् । ददौ श्रीभूमिदेवेभ्यो बमभ्य इव मूर्तिभिः ।।(युग्मम्) शालातालकसम्बन्ध-निवेशेन तदा मरुत् । निदधे बह्मशालायां चैत्ये च परमेष्ठिनम् ।। मलयाद्रौ यथा सर्वे चन्दनन्ति महीरूहः । ब्राह्मणा वणिजश्चात्र तथासन् वायटाख्यया ।। अभूज्जाति: स्फुरज्जातिपुष्पसौरभनिर्भरा । सरसालिभिराराध्या तन्नाम्ना सर्वमूर्द्धगा ।।
धर्मदेवः श्रियां धाम श्रेष्ठी तत्रास्ति विश्रुतः । साक्षाद्धर्म इव न्यायार्जितद्रव्यप्रदानतः ।। १. वायुः। २. प्रथमतः षष्टश्लोकस्थाने हस्तप्रतौ 'पुरा वायुदेवः स्वयं सदानवस्थानः स्थानं जगच्छन् गुर्जरावनिमण्डलं
वायटाख्यया प्रसिद्धाऽऽभूवन् । तत्र पुरे वायरजातिमुख्यः श्रेणी जज्ञे ।' 6. प्रावचनिको धर्मकथिको वादी नैमित्तिकस्तपस्वी च । विद्यावान् सिद्धश्च कविः अष्टौ एव प्रभावका भणिताः ।।