________________
पभावणा तित्थे mmm
३४९
भत्तिविहवाणुरूपं अण्णेऽवि य देंति इब्भमाईया ।
सोऊण जिणागमणं निउत्तमणिओइएसुं वा ।।" फलमपि -
"देवाणुअत्ति भत्ती पूया थिरकरण सत्तअणुकंपा । साओदय दाणगुणा पभावणा चेव तित्थस्स ।।" [आवश्यकनियुक्ति-५८०-५८३]
तथा
ततो मासपूर्त्यनन्तरं गच्छासन्नस्थाने आयाति, आचार्यास्तु तत्प्रवृत्तिमन्विच्छन्ति । ततो नृपादीन्निवेद्यते प्रतिपालिततपःक्रमः साधुरिहायातस्ततो विभूत्या तस्योपरि चन्द्रोदयधारणं नान्दीतूर्यास्फालन-सुगन्धवासप्रक्षेपादिरूपया। तत्रेमे गुणा: -
"उब्भावणा पवयणे, सद्धाजणणं तहेव बहुमाणो ।
ओहावणा कुतित्थे, जीअं तह तित्थवृड्ढि अ ।।" [व्यवहारभाष्य-८००
प्रवचनस्योत्प्राबल्येन भ्राजमानं प्रकाशनम् । अन्येषां साधूनां श्रद्धाजननम्, वयमप्येवं कुर्मो येन महती शासनप्रभावना भवति । श्राद्ध-श्राविकाणामन्येषां च शासनोपरि बहुमानः । कुतीर्थानामपभ्राजना तत्रेदृशां महासत्त्वानामभावात् । जीतमेतद्यत्समाप्तप्रतिमानुष्ठानः सत्करणीयः । तीर्थवृद्धिः प्रवचनस्य ह्यतिशयं वीक्ष्य बहवः संसाराद्विरज्यन्ते प्रव्रज्यां च प्रतिपद्यन्ते । श्री व्यवहारभाष्यवृत्तौ ।
नृपादिभिः श्रीसङ्घन चाभिनन्द्यमानः प्रवेश्यते, तस्य बहुमानार्थमन्येषां श्रद्धावृद्ध्यर्थं प्रभावनार्थं च ।
केऽपि कथयिष्यन्ति प्रभावका: श्रीजिनाज्ञाविराधकास्तन्नासम्भाव्यमानमस्ति । तथापि ये केऽपि प्ररूपयन्तः सन्ति ते प्रष्टव्याः, 'क्वाप्यागमादिशास्त्रेषु प्रभावका दुर्गतिगामिनः कैदृष्टाः श्रुता वा ? तत्प्रकाश्यत। नो चेत्, प्ररूपका एव श्रीजिनाज्ञाफलं प्राप्स्यन्तीति
3. भक्तिविभवानुरूपमन्येऽपि च ददाति इभ्यादयः । श्रुत्वा जिनागमनं नियुक्तानियोजितेभ्यो वा ।। 4. देवानुवृत्तिः भक्तिः पूजा स्थिरकरणं सत्वानुकम्पा । सातोदयो दानगुणाः प्रभावना चैव तीर्थस्य ।। 5. उद्धाजना प्रवचने, श्रद्धाजननं तथैव बहुमानम् । अपभ्राजना कुतीर्थे, जीवं तथा तीर्थवृद्धिश्च ।।