________________
[ पभावणा तित्थे ]
[३६-प्रभावना तीर्थे]
अथ पभावणा तित्थेत्ति । प्रकृष्टा भावना [ प्रभावना], भावना स्वार्थसाधनी, प्रभावना तु स्वार्थ-परार्थयोरपि । यदुक्तम् -
“जगति विदितमेतद्भावनारूपधर्मादधिकगुणवतीयं वर्णसंख्यातिगा च । निजमनसि निविष्टा स्वप्रबोधे पटिष्ठा, स्वपरजननिबोधे प्रत्यलान्याप्रयुक्ता ।। "
तित्थं चाउव्वण्णो [तीर्थं चतुर्विधः ] सङ्घः शासनं वा, तस्मिन्महामहकरणश्रीतीर्थयात्राप्रासादप्रतिमाप्रतिष्ठा-श्रीजिनस्नात्रमह - सविस्तर- महाध्वजप्रदान-१७भेदविधिसत्यापन-प्रतिग्रामप्रतिनगर-प्रतिगृह-केवलसम्यक्त्वमोदक-सनाणक-सभाजनमोदक- घृत-गुड-खण्डादि-लम्भनतपस्तपन - तदुद्यापनढौकन- श्रीसङ्घ भक्ति-साधर्मिकवात्सल्य-श्रीगुरुप्रवेशमहादिकरणसर्वजनविज्ञातधर्मकरणीयैस्तीर्थस्य प्रभावना श्राद्धानां युक्तिमती । यतः
“प्रतिवर्षं सहर्षेण निजवित्तानुमानतः । पूजनीयाः सधर्माणो धर्माचार्याश्च धीमता ।।
पुत्रजन्मविवाहादि - मङ्गलानि दिने दिने । परं भाग्यवतां पुंसां श्रीसङ्घार्चादिमङ्गलम् ।।” श्री आवश्यकेऽप्युक्तम्
“वित्ती उ सुवण्णस्स बारस अद्धं च सयसहस्साइं । arasi चिकोडी पीतीदाणं त चक्किस्स ।।
एयं चेव पमाणं णवरं रययं तु सवादिति । मंडलिआण सहस्सा पीईदाणं सयसहस्सा ।।
1. वृत्तिस्तु सुवर्णस्य द्वादश अर्द्ध च शतसहस्राणि । तावत्य एव कोट्यः प्रीतिदानं तु चक्रवर्त्तिनाम् ।।
2. एतदेव प्रमाणं नवरं रजतं तु केशवाः ददति । माण्डलिकानां सहस्राणि प्रीतिदानं शतसहस्राणि ।।