________________
३३६
'मन्नह जिणाण आणं' स्वाध्यायः
'वटवृक्षस्य दूरस्याधो विभ्राम्यन्त्रयं मूलीवाहकप्रमाणम् ।' राजाह - 'कथम् ?' गुरुः प्राह - 'अयं दारिद्र्यभग्नो निर्वेदमापन्नः, क्वचिद्गिरौ भृगुपातं कुर्वन् कायोत्सर्गस्थऋषिणा निषिद्धः । तद्गुहास्थजिनप्रतिमां त्वं पूजय सदा । भवतो भव्यं भावि । इत्युपदेशेन स तामर्चयति । तत्पुण्यबलात्तवापुत्रस्य साधिकनवमास्या राज्याधिपः पुत्रो भावी ।' राजाह - 'सरोषमहं कीदृशो भविष्यामि ?' गुरुः प्राह - सर्पदंशमृत्युना सञ्चारकस्य स्वस्य मध्ये मेहरो भावी । इदं श्रुत्वा गुरुपार्श्वे तलारक्षकान् मुक्त्वा रोषात्तं जघान । स मृत्वा वाणारस्यामेव निरङ्गव्यवहारिणो जिनश्रियः कुक्षाववतीर्णः, परं सदन्तः, जातमात्र एव वक्ति - 'राजाऽहं नाऽत्र गृहे स्थास्यामि ।' भयात्पित्रा बहिरुद्याने मुक्तः । राज्ञा सर्पभयादुभयोः पार्श्वयोः समर्थरक्षकपुंधृतझोलिकायां बालवत्तिष्ठति । द्वयोर्वैरिणोविंद्याधरयोर्युद्धं, विद्याभिमन्त्रितकुसुमपातः । राज्ञा परिमलाढ्यं तदाघ्रायि । घ्राणश्वासयोगेनोत्पन्नसर्पेण दष्टो मृतः । सञ्चारके मेहरः । देवताधिष्ठितगजादिपञ्चकमुद्याने गतम् । बालकोपरिपूर्णकलशढालनम्, राज्यम्, जातिस्मरणं समये प्रतिमां दृष्ट्वा, स्वमारकस्याऽपि राजजीवस्य प्रतिबोधाय सर्वत्र गृहद्वारशाखायां पटवादनपूर्वकं‘न नृपादी'ति श्लोकलेखनम्, सप्तभवान् भ्रान्त्वा राजाऽपि मनुजोऽभूत् । श्लोकार्थं विचारयतस्तस्य जातिः । देवार्चापुण्येन द्वादशमे स्वर्गे गतः । ततश्च्युत्वा विदेहे नृपः सिद्धः । मूलीवाहकजीवः राज्यं प्रतिपाल्य सिद्धः ।।
।। इति चन्द्रशेखरराजकथा ।।
[इइ करणदमो]