________________
[चरणपरिणामो]
[३३-चरणपरिणामः]
अथ चरणपरिणामः । चरणं चारित्रं तत्र परिणामः श्रद्धा भाववासना तस्यां
यतनीयम् । यथा
" त्यक्तसङ्गो जीर्णवासा, मलक्लिन्नकलेवरः । भजन् माधुकरीं वृत्तिं, मुनिचर्यां कदा श्रये ? ।।
त्यजन् दुःशीलसंसर्गं, गुरुपादरजः स्पृशन् । कदाहं योगमभ्यस्यन्, प्रभवेयं भवच्छिदे ? ।। महानिशायां प्रकृते, कायोत्सर्गे पुराद् बहिः । स्तम्भवत् स्कन्धकर्षणं, वृषाः कुर्युः कदा मयि ? ।। वने पद्मासनासीनं, क्रोडस्थितमृगार्भकम् । naissaास्यन्ति वक्त्रे मां जरन्तो मृगयूथपाः ? ।। शत्रौ मित्रे तृणे स्त्रैणे, स्वर्णेऽश्मनि मणौ मृदि । मोक्षे भवे भविष्यामि, निर्विशेषमतिः कदा ? ।। अधिरोढुं गुणश्रेणि निःश्रेणीं मुक्तिवेश्मनः । परानन्दलताकन्दान् कुर्यादिति मनोरथान् ।। इत्याहोरात्रिकीं चर्या -मप्रमत्तः समाचरन् । यथावदुक्तवृत्तस्थो गृहस्थोऽपि विशुध्यति ।। "
[योगशास्त्र-३/१४१-१४७]
श्रीस्थानाङ्गेऽपि साधूनाश्रित्य -
1
तिहिं ठाणेहिं समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवति, तं जहा- कया णं अहं अप्पं वा बहुं वा सुयं अहिज्जिस्सामि - १, कया णं अहमेकल्लविहार-पडिमं उवसंपज्जित्ता
१. 'भावासना' हस्त० ।
1. त्रिभिः स्थानैः श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति, तद्यथा - कदा खलु अहमल्पं वा, बहुवा, श्रुतमध्येष्ये, कदा खलु अहमेकाकिविहारप्रतिमामुपसम्पद्य विहरिष्यामि कदा खलु अहमपश्चिममारणान्तिकसंलेखना - जोषणाजोषितो भक्तपानप्रत्याख्यातः पादोपगतः कालमनवकांक्षन् विहरिष्यामि, एवं स्वमनसा, स्ववचसा, स्वकायेन जागरयन् निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति ।