________________
३३४ mmmmmmmmmm
rrrrrrrrrrrrrrr- 'मन्नह जिणाण आणं' स्वाध्यायः
मन्त्रिणो हस्ते जलकच्चोलकमर्पितम्। असिकरौ घातको द्वौ पुरुषावुक्तौ च, यदास्य मनोव्याक्षेपाज्जलबिन्दुरपि भूमौ पतति तदा खड्गघातेन खण्डशः करणीय एवेति । तत: स्थाने स्थाने नाटकानि मण्डापितानि । ततः क्रमेण नगरं परितः परिभ्रम्य राज्ञः सभायामागतः । ततो राज्ञा पृष्टम् - 'भो मन्त्रिन् ! क्वाऽपि किमपि दृष्टम् ? मन्त्रिणोक्तम् ‘देव ! न दृष्टं किमपि ।' राजाह - 'कस्मान्न दृष्टम् ?' ततो मन्त्री कथयति - 'मम मनो जलभृतकच्चोलक एव स्थितं नान्यत्र । ततो राज्ञा बोधितः । मानितं च मनोनियन्त्रणं तेन मन्त्रिणा । यथा तस्य मन्त्रिण एकमनोनिरोधेन सर्वेन्द्रियरोधः । कर्णाभ्यां गीतवाद्यनिनादाश्रवणम्, लोचनाभ्यां नाटकाप्रेक्षणम्, घ्राणेन गन्धापरिज्ञानम् जिह्वया स्वादावेदनम्, स्पर्शनेन्द्रियेण शीततापाद्यननुभूतिस्तथा सर्वेषामपि ज्ञेयम् ।
॥ इति मनोदमने मन्त्रीकथा ।। अथ स्पर्शनेन्द्रिये सम्बन्धः -
॥ अथ मूलराजकथा ।। ___पुरा पत्तने मूलराजेन त्रिपुरुषः प्रासादः कारितः । तच्चिन्तार्थं कमप्यालोकमानेनैकान्तरपारणे पञ्चग्रासीकृत्सांघटिकयोगो दृष्टः । तं नन्तुं यावत् याति तावत्तेन तृतीयद्वारेणास्वस्थेन राजानं वार्त्तयितुं ज्वरः कन्थायां मुक्तः । कन्थाकम्पं प्रावीक्ष्य पृष्टे, सद्भावे प्रोक्ते, विस्मितो राजाह-'यद्येवं शक्तिस्तर्हि सर्वथा [ज्वरः] किं न स्फेटयति । स आह -
"उपतिष्ठन्तु मे रोगा, ये केचित्पूर्वसञ्चिताः । आनृण्ये गन्तुमिच्छामि, तच्छम्भोः परमं पदम् ।।
[प्रबन्धचिन्तामणि] “नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव हि भोक्तव्यं, कृतं कर्म शुभाशुभम् ।।"
[ ] ततस्तत्समर्थयितुं नृपेणोक्तम्, स आह - “अधिकारात्त्रिभिर्मासै - उठापत्यात्त्रिभिर्दिनैः । शीघ्रं नरकवाञ्छा चेद्दिनमेकं [दिनं भव] पुरोहितः ।।"
[प्रबन्धचिन्तामणि] इत्यादि जानन् कथं लोभेनाभिभूये । ततो नृपस्ताम्रशासनं मण्डकवेष्टितं कृत्वा भिक्षागतस्य तस्य पत्रपुटेऽमोचयत्। सोऽज्ञानान्मठं प्रत्यावृत्तः सरस्वती तद्दिने पूरान्तर्मागं न दत्ते ।
“सर्वः स्वात्मनि गुणवान्, सर्वः परदोषदर्शने कुशलः । सर्वस्य चास्ति वाच्यं, न चात्मदोषान् वदति कश्चित् ।।"