________________
करणदमो mmmmmmmmm
mmmmmmmm ३३३
समुप्पज्जिउकामे वि न समुप्पज्जेज्जा, तं जहा-अभिक्खणं अभिक्खणमित्थिकहं भत्तकहं देसकहं रायकहं कहेत्ता भवति १, विवेगेणं विउसग्गेणं णो सम्ममप्पाणं भाविता भवति २, पुव्वरत्तावरत्तकालसमयंसि णो धम्मजागरित्तं जागरतित्ता भवति ३, फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स णो सम्मं गवेसित्ता भवति ४, इच्छेतेहिं चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा जाव नो समुप्पज्जेज्जा ।
__चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अतिसेसे णाणदंसणे समुप्पज्जिउकामे समुप्पज्जेज्जा, तं जहा-इत्थीकहं भत्तकहं देसकहं रायकहं णो कहेत्ता भवति, विवेगेणं विउसग्गेणं सम्ममप्पाणं भवित्ता भवति, पुव्वरत्तावरत्तकालसमयंसि धम्मजागरितं जागरतित्ता भवति, फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स सम्मं गवेसित्ता भवति, इच्चेतेहिं चउहि ठाणेहिं णिग्गंथाण वा णिग्गंथीण वा जाव समुष्पज्जिउकामे समुप्पज्जेज्जा ।" षट्सु [रसेसु] चेन्मनो नियन्त्रितं तदाऽपरेन्द्रियदमः सुकर एव । यतः - "मणमरणे इंदियमरणं, इंदियमरणे मरंति कम्माइं ।
कम्ममरणेण मुक्खो, तम्हा मणमारणं बिंति ।।" अत्र कथा -
।। अथ मनोदमने मन्त्रीकथा ।। कश्चनाऽपि राजा साधुगुणरक्तः साधुं स्तौति - 'अहो ! एते मुनीन्द्रा इन्द्रियदमनपरा मनोनियन्त्रणपराः' इत्यादि । तन्मन्त्री मिथ्यादृक्कथयति - 'देव ! मनो न जीयते केनाऽपि, कथमपि,' स तु मनोनियन्त्रणं सर्वथा न मन्यते । ततो राज्ञा सर्वथा पर्यवसापनाय तद्गृहमध्ये प्रच्छन्नं मञ्जूषान्तः स्वनामाङ्कममूल्यं मुद्रारत्नं देशान्तरादागतं श्राद्धमहेभ्यपात्क्षेिपितम् । ततो राज्ञा पटहो दापितः । यः कश्चनाऽपि राज्ञो मुद्रारत्नमधुना स्वयमेव समानीय समर्पयति तस्य न दोषः । पश्चाद्यस्य पार्श्वे नि:सरिष्यति तस्य चौरदण्ड इति । ततः प्रतिगृहं शोधयति, प्रथममात्मीयं गृहम्, ततः क्रमेण सेनान्यमात्यादीनाम्, ततो मन्त्रिगृहम्, तत्र मञ्जुषान्तः लब्धं मुद्रारत्नम्, राजा रुष्टः । चौरो निग्रहायार्पितो दण्डपाशिकानाम्, अमात्यादिभिरभ्यर्थ्य किमपि दण्डं कृत्वा मुच्यत इत्यादि पर्यवसापितो नृपः । ततो राजाह - 'यद्ययं जलभृतकच्चोलकं हस्तद्वयेन गृहीत्वा नगरं परितः परिक्रम्यागच्छति, जलबिन्दुरपि यदि भूमौ न पतति तदा जीवितमेतस्य मन्त्रिणो नान्यथा । ततो
२. 'विवेकेने' ति- अशुद्धादित्यागेन, 'विउस्सग्गेणं ति कायव्युत्सर्गेण । 9. मनोमरणे इन्द्रियमरणमिन्द्रियमरणे नियन्ते कर्माणि । कर्ममरणेण मोक्षस्तस्मात् मनोमारणं ब्रुवन्ति ।।