________________
३३२ mammam
rrrrrrrrrrrrrrr. 'मन्नह जिणाण आणं' स्वाध्यायः
अथ जिह्वा - अहं सरागा, विषयाधिका, रसज्ञा, सर्वपोषका ।
अन्यैरुक्तमस्या: प्रतिष्ठा योग्या, ओष्ठौ प्राकारः, अग्राशिनो द्वात्रिंशद्दन्ताः, सर्वेन्द्रियाणि [वदन्ति-] शिक्षवम्- मात्राधिकं न वक्तव्यं न च भोक्तव्यम्, तवोपराधेऽस्माकमपि क्षतिः, अस्मत्क्षये तवापकीर्तिश्च नाशश्च, अस्यां जितायां सर्वमपि जितम् । यत: -
"अक्खाण रसणी कम्माण मोहणी तह वयाण बंभवयं । गुत्तीण य मणगुत्ती चउरो दुक्खेण धिप्पंति ।। जिहवे प्रमाणं जानीहि, भोजने वचने तथा ।
अतिभुक्तमतीवोक्तं, प्राणिनां प्राणघातकम् ।। जिह्वाग्रे वसते विद्या, जिह्वाग्रे च सरस्वती ।
जिह्वाग्रे बन्धमोक्षश्च, जिह्वाग्रे परमं पदम् ।।" अपरेषामेक एव विषयो जिह्वायास्तु विषयद्वयम्, जल्पनं भोजनं च । वचनं विमृश्य यत्र यदुचितं तत्तदेव वक्तव्यम्, शोभापि तथैव । यतः - ___कागकिसिउं ते धन हरइ, जीभतणइ ह ल्लोह लइ जग अप्पणउं करेइ ।।"
भोजनेऽपि यत्कुलोचितं बह्वसावा मात्रया च भोक्तव्यम् । अजितेन्द्रियत्वे फलाफलं श्रीस्थानाङ्गोक्तम्
"चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अस्सिं समयंसि अतिसेसे नाणदसणे १. अयं श्लोकस्यार्थः सम्यग् न ज्ञायतेऽतः स्वमत्या संशोध्यः । सम्पा० । 7. अक्षाणां रसना कर्माणां मोहस्तथा व्रतानां ब्रह्मचर्यम् । गुप्तीनां च मनोगुप्तिश्चतस्रो दुःखेन गृह्यन्ते ।। 8. चतुर्भिः स्थानैः निर्ग्रन्थानां निर्ग्रन्थीनां वाऽस्मिन् समयेऽतिशेषं ज्ञान-दर्शनं समुत्पादयितुकाममपि न
समुत्पद्यते, तद्यथा-अभीक्ष्णमभीक्ष्णं स्त्रीकथाम, भक्तकथाम, देशकथाम्, राजकथां कथयिता भवति-१, विवेकेन, व्युत्सर्गेण नो सम्यगात्मानं भावयिता भवति-२, पूर्वरात्रापररात्रकालसमये नो धर्मजागरिकां जागरयिता भवति-३, प्रासुकस्य, एषणीयस्य, उञ्छस्य, सामुदानिकस्य नो सम्यग्गवेषयिता भवति-४, इत्येतैश्चतुर्भिः स्थानः निर्ग्रन्थानां निर्ग्रन्थीनां वा यावत् नो समुत्पद्यते । चतुर्भिः स्थानः निर्ग्रन्थानां निर्ग्रन्थीनां वाऽतिशेष ज्ञान-दर्शनं समुत्पादयितुकामं समुत्पद्यते, तद्यथा - स्त्रीकथाम्, भक्तकथाम, देशकथाम्, राजकथां नो कथयिता भवति, विवेकेन व्युत्सर्गेण सम्यगात्मानं भावयिता भवति, पूर्वरात्रापररात्रकालसमये धर्मजागरयिकां जागरयिता भवति, प्रासुकस्य, एषणीयस्य, उञ्छस्य, सामुदानिकस्य सम्यग्गवेषयिता भवति । इत्येतैश्चतुर्भिः स्थानः निर्ग्रन्थानां निर्ग्रन्थीणां वा यावत् समुत्पादयितुकामः समुत्पद्यते ।