SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ [करणदमो] [३२-करणदमः] अथ करणदमः । करणानि-इन्द्रियाणि तेषां दमः स्ववशीकरणम् । एतावता मुत्कलानि मोक्तव्यानि । यदुक्तमुपदेशमालायाम् - "निहयाणि हयाणि य इंदियाणि घाएहऽणं पयत्तेणं । अहियत्थे निहियाइं, हियकज्जे पूयणिज्जाइं ।।" [उपदेशमाला-३२८] अत्र शिष्यप्रश्न:- मुत्कलमुक्तैर्निजेन्द्रियैर्जीवाः स्वेच्छया यथेष्टं स्वकरणोचितं सुखमनुभवन्तो न केनाऽपि निवार्यन्ते, न बन्ध्यन्ते न पीड्यन्ते च । तत: कस्माद्दांतत्वोपदेशः ? वत्स ! मैवं वद, शृणु । "अदान्तैरिन्द्रियहयै-चलैरपथगामिभिः । आकृष्य नरकारण्ये, जन्तुः सपदि नीयते ।। इन्द्रियैर्विजितो जन्तुः, कषायैरभिभूयते । वीरैः कृष्टेष्टकः पूर्वम्, वप्रः कैः कैर्न खण्ड्यते ? ।। कुलघाताय पाताय, बन्धाय च वधाय च । अनिर्जितानि जायन्ते, करणानि शरीरिणाम् ।।" [योगशास्त्र-४/२५-२७] स्वेन्द्रियनियन्त्रणे त्वयं लाभ: । यदुक्तम् - "जितेन्द्रियत्वं विनयस्य कारणं, गुणप्रकर्षो विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते, जनानुरागप्रभवा हि सम्पदः ।।" [सु. मु.-५१/२] न हि जितेन्द्रियत्वं सर्वथा सर्वेषामिन्द्रियाणां निरोध एव, किन्तु तद्विषयेषु रागद्वेषनिरोधः । पुराततैरपि मुनीन्द्रैरिन्द्रियाणां स्व-स्वविषयनिरोध एव विरचितः । अन्यथा श्रीस्थूलभद्रप्रमुखाणां वेश्यादिगृहस्थितानां वेश्याप्रदत्तषविकृत्याहारभुजां कथं शुद्धिः ? श्रीआचाराङ्गेऽपि तथैवोक्तेः । 1. निहतानि हतानि चेन्द्रियाणि घातयत प्रयत्नेन । अहितार्थे निहतानि हितकार्ये पूजनीयानि ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy