________________
धम्मीअजणसंसग्गो mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
ommmmmmmmmmmm ३२७
एवं च जहा कामे निव्वेओ तह कोह-लोह-माण-मायाईणं कुतित्थाणं च समकालं चिअ सव्वभाव-विभावएण गुरुणा सव्वत्थुणा हारगायण पंच वि चोरसयाइं संभरिअ पुव्वजम्मवुत्तं ताइं पडिवन्नसमणलिंगाणि तहा कयं जहा संयमपवन्नाइंति ।।
इति ४ कथास्वरूपं श्रीउत्त० ल० वृत्तौ । एवं धार्मिकाणां श्राद्धानां संसर्गान्मिथ्यादृष्टिनामपि सम्यक्त्वादिश्रीजिनधर्मप्राप्तिः स्यात् । यथा -
।। अथ वरुणश्राद्धस्य कथा ।। चम्पायां कूणिको राजा, हल्लविहल्लौ भ्रातरौ, तौ सेचनकगन्धहस्तिसमारुढौ दिव्यकुण्डल-हार-वस्त्रविभूषितौ दृष्ट्वा कूणिकभार्या पद्यावती नृपं प्रेरयत् । राज्ञा तौ याचितौ, तद्भयात्तौ वैशाल्यां चेटकनृपस्य स्वमातामहस्यान्तिकं गतौ । कूणिकेन दूतप्रेषणेन याचितौ । चेटको नार्पयत् । कूणिको भिन्नमातृकैः कालादिदशभ्रातृभिर्युत: प्राप्तो वैशाल्याम् । तत्रैकैकस्य त्रीणि त्रीणि सहस्राणि गजानामश्वानां रथानांच, पत्तीनां तिस्त्रस्तिस्त्र: कोट्यः । कूणिकस्याप्येवम् । ततश्चेटकोऽपि अष्टादशगणराजयुत आगतः । चेटकस्य अष्टादशगणराज्ञां च सैन्यमानं कूणिकवत् । ततो युद्धं लग्नम् । हल्लविहल्लौ विभंगज्ञानिसेचनकगजारूढौ कूणिकसैन्ये रात्र्यवस्कन्दं दत्वा गजाश्वरथाद्यानयत । एकदा कूणिककारितां मार्गे उपरिच्छन्नखादिराङ्गारखातिकां विभङ्गेन ज्ञात्वा ताभ्यां प्रेरितोऽपि न चलति हस्ती । त्वदर्थं युद्धमारब्धं त्वं चेदृश इति ताभ्यामाक्रुष्टस्तौ दूरे क्षिप्त्वा हस्ती खातिकायां पतित्वा मृत्वाद्यनरके उत्पन्नः । ततो हल्लविहल्लौ देवतया श्रीवीरसमीपे तौ दीक्षां प्रपन्नौ। अनुत्तरविमाने चोत्पन्नौ। चेटकः प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुञ्चति, अमोघबाणश्च सः । कूणिकस्य गरुडव्यूहः, चेटकस्य सागरव्यूहः, दशदिनैश्चेटकेनैकैकशरेण दशाऽपि कालादयो हताः । तुर्य नरके उत्पन्नास्ततो विदेहे सेत्स्यन्ति । तज्जनन्यो वीरपार्श्वे प्रव्रजिताः । एकदा दशदिग्विजयार्थमष्टमभक्तेन पूर्वभवसंगतिको कार्तिकश्रेष्ठिभवे शक्रस्य कूणिको मित्रमभूत्, पूरणतापसावस्थायां चमरस्यासौ मित्रं सौधर्मेन्द्रचमरेन्द्रावाराधितौ । चेटकं श्रावकमहं न हन्मीति शक्रेण वज्रकवचोऽभेद्यो दत्तः, चमरेण महाशिलाकण्टक-रथमुशलाभिधौ सङ्ग्रामौ च । यत्र तृणादिनाप्यभिहतस्य गजाश्वादिमहाशिलाकण्टकेनेवाहतस्य वेदना स्यात्, स सङ्ग्रामोऽपि तथा, यत्र रथोऽनश्वोऽसारथिरनारोहक एव मुशलेन युक्तः परिधावन् कल्पान्त इव जनक्षयं करोति स तथा,
२. श्रीउत्तराध्ययनस्य वृत्तिषट्कं दृष्टमस्माभिः परं न दृष्टान्यक्षराण्यमूनि । - संपा० । 12. एवं च यथा कामे निर्वेदस्तथा क्रोध-लोभ-मान-मायादिनां कुतीर्थानां च समकालमेव सर्वभावविभावनेन
गुरुणा सर्वस्थम्ना गायनं पञ्चापि चौरशतानि सम्भार्य पूर्वजन्मवृत्तं तानि प्रतिपन्नश्रमणलिङ्गानि तथा कृतं यथा संयमप्रपन्नानीति ।