________________
[धम्मिअजणसंसग्गो
[३१-धार्मिकजनसंसर्गः] अथ धम्मिअजणसंसग्गो । धार्मिका ये जिनधर्ममर्मविदः सम्यक्तया तेषां संसर्ग: परिचयः स कर्तव्यः । यत: -
"आययणसेवणाओ दोसा झिज्जंति वड्डइ गुणोहो ।
परगिहगमणं पि कलंकपंकमूलं सुसीलाणं ।।" [धर्मरत्नप्रकरण - ३९] आयतनं धार्मिकजनमीलनस्थानम् । उक्तं च - "जत्थ साहम्मिया बहवे, सीलवंता बहुस्सुया ।
चरित्तायारसंपन्ना, आययणं तं वियाणाहि ।" [ओघनियुक्ति - ७८३] तस्य सेवनात् दोषा मिथ्यात्वादयो हीयन्ते, गुणौधो वर्धते । अनायतनसेवनेन च वैपरीत्यम्, अनायतनं चेदम् -
"दंसणनिब्भेयणिया, चरित्तनिब्भेयणीया अणवरयं ।
जत्थ पयट्टइ विगहा, तमणाययणं महापावं ।।" तथा -
"न भिल्लपल्लीसु न चौरसंश्रये, न पार्वतीयेषु जनेषु संवसेत् । न हिंस्रदुष्टाशयलोकसन्निधौ, कुसङ्गतिः साधुजनस्य निन्दिता ।।" "सतप्तायसि संस्थितस्य पयसो नामाऽपि न ज्ञायते, मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।
1. आयतनसेवनातो दोषाः क्षीयन्ते वर्द्धते गुणोघः । परगृहगमनमपि कलङ्कपङ्कमूलं सुशीलानाम् ।। 2. यत्र साधर्मिका बहवः शीलवन्तो बहुश्रुताः । चारित्राचारसम्पन्ना आयतनं तं विजानीहि ।। 3. दर्शननिर्भेदनीया चारित्रनिर्भेदनीयाऽनवरतम् । यत्र प्रवर्तते विकथा तमनायतनं महापापम् ।।