________________
३१६ rrrorm
wrrormerrrrrrrrrrrrr 'मन्नह जिणाण आणं' स्वाध्यायः
पञ्च बादरा, न तु सूक्ष्मनामकर्मोदयवर्तिनः, सर्वलोकव्यापिनस्तेषां वधाभावात् स्वयमायुःक्षयेणैव मरणात्, [अत्र च साधूनां द्विविधादपि वधानिवृत्तत्वाविंशतिविशोपका जीवदया,] गृहस्थानां स्थूलप्राणिवधानिवृत्तिर्न तु सूक्ष्मवधात्, पृथ्वीजलादिषु सततमारम्भप्रवृत्तत्वादिति [दशविंशोपकरूपम गतम्,] स्थूलप्राणिवधोऽपि द्विधा-सङ्कल्पज आरम्भजश्च, तत्र सङ्कल्पान्मारयाम्येनमिति मनःसङ्कल्परूपाद्यो जायते तस्माद्गृही निवृत्तो, न त्वारम्भजात्, कृष्याद्यारम्भे द्वीन्द्रियादिव्यापादनसम्भवात्, अन्यथा च शरीर-कुटुम्बभरणनिर्वाहाभावात्, [एवं पुनरर्द्धं गतम्, जाताः पञ्च विंशोपकाः,] सङ्कल्पजोऽपि द्विधा सापराधो निरपराधश्च, तत्र निरपराधान्निवृत्तिः सापराधे तु गुरुलाघवचिन्तनं यथा गुर्वपराधो लघुर्वेति, [एवं पुनर॰ गतेऽस्या द्वौ विंशोपको जातो,] निरपराधवधोऽपि द्वेधा-सापेक्षो निरपेक्षश्च, तत्र निरपेक्षानिवृत्तिर्न तु सापेक्षात्, सापेक्षनिरपेक्षक्रिययोः सर्वत्र सापेक्षेणैव भवितव्यम्, न तु निरपेक्षेण तस्य दयापरिणामाभावात्। प्राणातिपातविरमणे इहलोके राजपूज्यता-देवतासानिध्यादयोऽनेके गुणाः । तद्यथा -
।। अथ क्षेमामात्यकथा ।। ___पांडलिपुत्ते नगरे जियसत्तू राया, खेमो से अमछो चउब्विधाए बुद्धीए संपण्णो समणोवासगो सावगगुणसंपण्णो, सो पुण रण्णो हिउत्ति काउं अण्णेसिं दंडभडभोइयाणं अप्पितो, तस्स विणासणणिमित्तं खेमसंतिए पुरिसे दाणमाणेहिं सक्कारिति, रण्णो अभिमरए पउंजंति, गहिता य भणंति हम्ममाणा-अम्हे खेमसंगता तेण चेव खेमेण णिउत्ता, खेमो गहितो भणति-अहं सव्वसत्ताणं खेमं करेमि किं पुण रण्णो सरीरस्स त्ति ?, तथावि वज्झो आणत्तो, रण्णो य असोगवणियाए अगाहा पुक्खरिणीसंछण्णपत्तभि समुणाला उप्पलपउमोपसोभिता, सा य मगरगाहेहिं दुरवगाहा, ण य ताणि उप्पलादीणि कोइ उञ्चिणिउं समत्थो, जो य वज्झो रण्णा आदिस्सति सो वुच्चति-एत्तो पुक्खरिणीतो पउमाणि आणेहित्ति, ताधे खेमो उद्वेऊण नमोऽत्थु णं अरहंताणं भणित्तु जदिहं निरावराधी तो मे देवता साणेझं देंतु, सागारं भत्तं पञ्चक्खायितुं ओगाढो, देवदासाण्णेझेणं मगरपुट्ठीठितो 19. पाटलिपुत्रे नगरे जितशत्रू राजा, क्षेमस्तस्य अमात्यश्चतुर्विधया बुद्ध्या संपन्नः श्रमणोपासकः श्रावकगुणसम्पन्नः,
स पुना राज्ञे हित इति कृत्वाऽन्येषां दण्डभटभोजिकानामप्रियः, तस्य विनाशननिमित्तं क्षेमसत्कान् पुरुषान् दानसन्मानाभ्यां सत्कारयन्ति, राज्ञेऽभिमरकान् प्रयुञ्जन्ति, गृहीताश्च भणन्ति हन्यमाना:-वयं क्षेमसत्काः तेनैव क्षेमेण नियुक्ताः, क्षेमो गृहीतो भणति-अहं सर्वसत्त्वानां क्षेमं करोमि किं पुना राज्ञः शरीरस्येति ?,
तथापि वध्य आज्ञप्तः, राज्ञश्चाशोकवनिकायामगाधा पुष्करिणी संछन्नपत्रबिशमृणाला उत्पलपद्मोपशोभिता, 20. सा च मकरग्राहैर्दुरवगाहा, न च तान्युत्पलादीनि कोऽप्युच्चेतुं समर्थः, यश्च वध्यो राज्ञाऽऽदिश्यते स
उच्यते-इतः पुष्करिणीत: पद्मान्यानयेति, तदा क्षेम उत्थाय नमोऽस्तु अर्हद्भ्यो भणित्वा यद्यहं निरपराधस्तदा मह्यं देवता सानिध्यं ददातु, साकारं भक्तं प्रत्याख्यायावगाढः, देवतासानिध्येन मकरपृष्टिस्थितो बहून्युत्पलपद्मानि गृहीत्वोत्तीर्णः, राज्ञा हृष्टेन क्षामित: उपस्कृतश्च, प्रतिपक्षनिग्रहं कृत्वा भणित:-किं ते वरं ददामि ?, तेन निरुध्यमानेनापि प्रव्रज्या चरिता प्रव्रजितः, सुखानां भाजनं जातः ।