________________
जीवकरुणा mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm ३१५
सब्वे पाणा सब्वे भूआ सब्वे जीवा सव्वे सत्ता न हंतव्वा, न अज्जावेयवा, न परियावेयव्वा, न परिघेतव्वा, न उद्दवेयव्वा, एस धम्मे सुद्धे निइए सासए समिच्च लोयं खेयण्णेहिं पवेइए।"
[आचाराङ्ग-४/१] अत्र च देशविरतस्य श्रावकस्य प्रथमव्रतप्रतिपत्तिप्रकारमाह -
"थुलगपाणाइवायं समणोवासओ पच्चक्खाइ, से पाणाइवाए दुविहे पन्नत्ते, तं जहा - 'संकप्पओ अ आरंभओ अ, तत्थ समणोवासओ संकप्पओ जावज्जीवाए पच्चक्खाइ, नो आरंभओ ।"
स्थूला:-द्वीन्द्रियादयः, स्थूलत्वं चैतेषां सकललौकिकजीवत्वप्रसिद्धेः, [एतदपेक्षयैकेन्द्रियाणां सूक्ष्माधिगमेन जीवत्वसिद्धेरिति,] स्थूला एव स्थूलकास्तेषां प्राणा:-इन्द्रियादयः तेषामतिपातः [स्थूलप्राणातिपातः] तं [श्रमणोपासक: श्रावक इत्यर्थः] प्रत्याख्याति, तस्माद् विरमत इति भावना । स च प्राणातिपातो द्विविधः प्रज्ञप्तः, [तीर्थकरगणधरैर्द्विविधः प्ररूपित इत्यर्थः], सङ्कल्पजश्चारम्भजश्च, सङ्कल्पाज्जातः सङ्कल्पजः, मनसः सङ्कल्पाद् द्वीन्द्रियादिप्राणिनः मांसास्थिचर्मनखवालदन्ताद्यर्थं व्यापादयतो भवति, आरम्भाज्जातः आरम्भजः, तत्रारम्भो-हलदन्तालखननस्तत् [लवन] प्रकारस्तस्मिन् शङ्खचन्दणकपिपीलिकाधान्यगृहकारकादिसङ्घट्टन-परितापापद्रावणलक्षण इति, तत्र [श्रमणोपासक:] सङ्कल्पतो यावज्जीवयापि प्रत्याख्याति, [न तु यावज्जीवयैव नियमत इति,] 'नारम्भज मिति, तस्यावश्यतयाऽऽरम्भसद्भावादिति, आह-एवं सङ्कल्पतः किमिति सूक्ष्मप्राणातिपातमपि न प्रत्याख्याति ?, उच्यते, एकेन्द्रिया हि प्रायो दुष्परिहाराः सद्मवासिनां सङ्कल्प्यैव सचित्तपृथ्व्यादिपरिभोगात् ।
उक्तं च - . "थूला सुहुमा जीवा संकप्पारंभओ अ ते दुविहा ।
सवराहनिरवराहा साविक्खा चेव निरविक्खा ।।१।।" प्राणिवधो द्विविधः स्थूलसूक्ष्मजीवभेदात्, तत्र स्थूला द्विन्द्रियादयः सूक्ष्माश्चात्रैकेन्द्रिया: पृथ्व्यादयः
१२. 'न परियावेयव्वा' हस्त० नास्ति ।
सर्वे जीवाः सर्वे सत्त्वा न हन्तव्याः, नाज्ञापयितव्याः, न परितापयितव्याः, न परिग्राह्याः, नापद्रावयितव्याः । एष धर्मः शुद्धो नित्यः शाश्वतः, समेत्य लोकं क्षेत्रज्ञैः प्रवेदितः ।