________________
जीवकरुणा mmmmmmm
३१३
अन्यत्राप्युक्तम् - "भूजलजलणाणिलवणबितिचउपंचिंदिएहिं नव जीवा । मणवयणकायगुणिया हवंति ते सत्तवीसे त्ति ।। इक्कासीइ करणकारणाणुमईहिं ताडिया होइ ।
सच्चिय तिकालगुणिया दुन्निसया हुँति तेयाला ।।" [सम्बोधप्रकरण-११२४-११२५] लोकेऽपि -
"क्रयेण क्रायको हन्ति, उपभोगेन खादकः ।
घातको वधचित्तेन, इत्येष त्रिविधो वधः ।।" न तु जीवस्यामूर्तत्वादनादिनिधनत्वाच्च कथं हिंसा सम्भव: ? सत्यं, ‘जीवप्राणधारणे'तिवचनाद्दशविधप्राणधारणं जीवनम् । तद्वियोजीकरणं हिंसेत्युच्यते । यदुक्तम् -
“पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिश्वासमथान्यदायुः ।
प्राणा दशैते भगवद्भिरुक्ता-स्तेषां वियोजीकरणं तु हिंसा ।।" सा हिंसा चतुर्धा द्रव्यभावाभ्याम् । तद्यथा - द्रव्यतो हिंसा भावतस्तु -
"जहा केइ पुरिसे मियवहपरिणामपरिणए मियं पासित्ता आयन्नाइड्डियकोदंडजीवे सरं निसिरेज्जा, से अमिए तेण सरेण विद्धे मए सिया । एसा दव्वओ हिंसा भावओ वि ।"
द्रव्यतो न भावतो या, सा खल्वीर्यादिसमितस्य साधोः कारणे गच्छत इति । उक्तं च श्रीओघनिर्युक्तौ -
"उच्चालियंमि पाए ईरियासमियस्स संकमट्ठाए ।
वावज्जेज्ज कुलिंगी मरिज्जं तं जोगमासज्ज ।। 8. भूजलज्वलनानिलवनद्वित्रिचतुःपञ्चेन्द्रियैः नवजीवाः । मनवचनकायगुणिता भवन्ति ते सप्तविंशतिरिति ।। 9. एकाशीतिः करणकारणानुमतिभिस्ताडिता भवन्ति । ते एव त्रिकालगुणिता द्विशतो भवन्ति त्रिचत्वारिंशद् ।। 10. यथा कश्चित् पुरुषो मृगवधपरिणामपरिणतो मृगं दृष्ट्वा आकर्णाकृष्टकोदण्डजीवः शरं निसृजेत्, स च
मृगस्तेन शरेण विद्धो मृतः स्यात् । एषा द्रव्यतो हिंसा भावतोऽपि ।। 11. उच्चालिते पादे ईर्यासमितेन संक्रमणार्थम् । व्यापद्येत कुलिङ्गी म्रियेत तं योगमासाद्य ।।