________________
३१२ .mmmmm
....'मन्नह जिणाण आणं' स्वाध्यायः
लौकिकेऽपि पुराणादौ -
"कृपानदीमहातीरे, सर्वे धर्मास्तृणाङ्कराः ।
तस्यां शोषमुपेतायाम्, कियन्नन्दन्ति ते चिरम् ।।" [सुक्तमुक्तावली-७१/५/ इदं हि मूलं धर्मस्य शेषस्तस्यैव विस्तार: । जीवदयाभिलाषिणातिपातस्वरूपम् अष्टोत्तरशतभेदैः ज्ञातव्यम् । यथा -
"संरम्भ-समारम्भ-आरम्भा मण-वयण-कायतिगे गुणिया [नवा], नवपए चेव करण-कारणाणुमईहिं गुणिया सत्तविसा एए चेव कोह-माण-माया-लोहेहिं गुणिया अट्ठोत्तरसया [भेया] हवंति ।" संरम्भादिस्वरूपमिदम् -
"संकप्पो संरंभो परितावकरो भवे समारंभो ।।
आरंभो उद्दवओ तिविओ जोगो समक्खाओ ।।" तत्र च प्राणिवधः २४३ [त्रिचत्वारिंशदधिकद्विशतः] विधो भवति । तथाहि -
"नवविहजिअवहकरणं कारावणमणुमई य जोगेहिं ।
कालतिएण य गुणिओ पाणिवहो दुसयतेयालो ।।" [ ] तत्र पृथिव्यपतेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रिया इति नवजीवभेदाः, मनोवाक्-कायैर्गुणिता जाता: २७ [सप्तविंशतयः], ते च करणकारणानुमतिभिर्गुणिता: ८१ [एकाशीतयः], ते चातीतानागतवर्तमानकालत्रयेण गुणिता जाता: २४३ [त्रिचत्वारिंशद्विशताः] भेदाः । कालत्रयेऽपि हिंसा सम्भवोऽस्तीति कालत्रयग्रहणम् । यदुक्तम् -
“अइअं निंदामि पडिपुन्नं संवरेमि, अणागयं पच्चक्खामि ।" ८. 'नवहिं' हस्त० । ९. 'कारावण' हस्त० नास्ति । 4. संरम्भ-समारम्भ-आरम्भाः मनो-वचन-कायत्रिके गुणिताः नवाः, नवपदे चैव करण-कारण-अनुमतिभिः
गुणिताः सप्तविंशतयः, एते चैव क्रोध-मान-माया-लोभैः गुणिताः अष्टोत्तरशताः भेदाः भवन्ति । 5. संकल्पः संरम्भः परितापकरो भवेत् समारम्भः । आरम्भ उद्मवतस्त्रिविधो योगः समाख्यातः ।। 6. नवविधजीववधकरणं कारापणमनुमतिश्च योगैः । कालत्रिकेन च गुणितः प्राणिवधो द्विशतत्रिचत्वारिंशत् ।। 7. अतितं निन्दामि, प्रत्युत्पन्नं संवृणोमि, अनागतं प्रत्याख्यामि ।।