________________
[जीवकरुणा] [३० - जीवकरुणा]
अथ जीवकरुणा । कोऽर्थः ? जीवानां प्राणिनां करुणा दया विधेया श्राद्धैर्यत्नतोऽपि । "सम्मत्तधरो विहिणा, कयवयकम्मो गुरूण पायमूले । इह मुणिवरेहिं समए, सुसावओ देसिओ भावे ।।” इह संविग्न-गीतार्थादिचतुर्भङ्ग्यां संविग्नगीतार्थपार्श्वविहितद्वादशव्रतश्रवण- परिज्ञान
[
]
ग्रहण-प्रतिसेवनाभिः भाव श्रावकः स्यात् । यदुक्तम् -
“तत्थायन्नणजाणणगिण्हणपडिसेवणेसु उज्जुत्तो । कयवयकम्मो चउहा भावत्थो तस्सिमो होइ ।।"
तत्र -
-
३
" [ सम्यक्त्वमूलानि ] पञ्चाणुव्रतानि गुणास्त्रयः । शिक्षापदानि चत्वारि, [ व्रतानि गृहमेधिनाम् ] ।।"
[धर्मरत्नप्रकरण-३४]
[योगशास्त्र - २/२] तत्र यतिश्राद्धधर्मस्य जीवदया जीवितत्वात् सर्वजीवरक्षणं प्रथमव्रतत्वेन प्रतिष्ठितम् । प्रथमं चास्य सर्वेषां व्रतानां जीवदयाङ्गभूतत्वात्, एतस्य पालने सर्वव्रतानां पालनात्, भञ्जने भङ्गसद्भावात्, सर्वदर्शनानां सम्मतत्वात्, स्वर्गापवर्गादिनिखिलसौख्यमुख्यकारणाच्च तथाहि -
“किं सुरगिरिणो गुरुअं, जलनिहिणो किं व हुज्ज गंभीरं ? ।
किं गयणाओ विसालं, को अ अहिंसासमो धम्मो ? || [ सम्बोधप्रकरण- ११३५] मैरुगिरिकणयदाणं, धन्नाणं जो देइ कोडिरासीओ ।
इक्कं हणेइ जीवं, न छुट्टए तेण पावेण ।। "
१. मुद्रितेषु पुस्तकेषु 'छज्जीवकरुणा' इति पाठो वर्तते परं हस्तप्रतवृत्तौ तु 'अ जीवकरुणा' [च जीवकरुणा] इति पाठ उपलभ्यते । वृत्यपेक्षया अयं पाठः स्वीकृतः । अत्र अ (च) शब्दः पूर्वकर्त्तव्यस्य सम्बन्धेन प्रयुक्तः । ० संपा० । २. 'परिजान-ग्रहण-प्रतिसेवना' हस्त० । ३. 'अणुव्रतानि पञ्च... चत्वारि' हस्त० । ४. '... धर्मस्यवदया जीविवितत्वात्' हस्त० । ५. सद्भावाते' हस्त० । ६. 'सर्वदत्रैनां' हस्त० । ७. 'वहेइ' हस्त० ।
1. सम्यक्त्वधर: विधिना, कृतव्रतकर्म गुरूणां पादमूले । इह मुनिवरैः समये, सुश्रावकः देशितो भावे ।। 2. तत्राकर्णन-ज्ञान-ग्रहण - प्रतिसेवनेषूद्युक्तः । कृतव्रतकर्मा चतुर्द्धा भावार्थस्तस्यायं भवति ।। 3. किं सुरगिरेः गुरुकं जलनिधेः किं वा भवति गम्भीरम् ? किं गगनाद्विशालं कश्चाहिंसासमो धर्मः ।। 4. मेरुगिरिकनकदानं धन्येभ्यो यो ददाति कोटिराशीः । एकं हन्ति जीवं न छुट्यते तेन पापेन ।।