________________
३१०
ततः पथिकस्तत्सार्थेन चलितः । मार्गे संमुखीनैः पथिकैरुक्तम् - विमल ! यत्र त्वं यास्यसि तत्रैतत्पण्यं नार्हति, त्रोटो भविष्यति, यदि श्रावस्त्यां यास्यसि तदा महान् लाभः । ततः श्रुत्वाऽपरे सार्थिकाः कियन्तः श्रावस्तीं प्रति प्रस्थिताः । विमलः पुनर्मार्गे मण्डूकी: सूक्ष्माः प्रचुरा वीक्ष्य न याति । यत्र तैस्त्रोटः कथितस्तत्रैव याति । मार्गेकस्मिन् ग्रामे लोकैः पण्यं याचितम् । जीर्णनिलनीली-मदन- मधु-लोह- लवण-प्रहरण- सन्नाहप्रभृतिपण्यविनिमयेन परं बहुलाभसम्भवेऽपि भ्रात्रा प्रेर्यमाणोऽपि पापभीरुतया नेच्छति तेषां विनिमयम् । ततो नवनीततापनेन तैर्धृतं ढौकितं, तदपि नेच्छति । ततोऽग्रतो गतः कस्मिंश्चिद् ग्रामे लोकैः सूत्रं याचितम् । विमलेनोक्तम् - सूत्रं तु सर्वत्राऽपि प्राप्यते । प्रायोऽल्पमूल्यं भवद्भिरतीवसादरैर्बहुमूल्येन कस्माद् गृह्यते । तैरुक्तम् - वयं धीवराः, अस्माकं ग्रामो जज्वले । जालानि सर्वाणि ज्वलितानि, वयं चौरपल्लीवासित्वेन क्वापि गन्तुं न पारयाम:, तेन जालकरणाय बहुमूल्यमपि सूत्रं गृह्यमाणमस्ति इति । विमलश्चिन्तयति पापद्रव्यस्य, तेषां सूत्रं न दत्ते लोभिना भ्रात्रा प्रेर्यमाणोऽपि । प्राप्तो कनकपुरोधाने । मध्याह्ने पथिकेन वह्निर्याचितः, विमलो न दत्ते ।
महुमज्जमंसभेसज्ज - मूलसत्थग्गिजन्तमन्ताइं । न कदावि हु दायव्वं, सहिं पावभीरूहिं ।।
'मन्नह जिणाण आणं' स्वाध्यायः
ततः कुपितः पथिको राक्षसरूपं कृत्वा भापयति । उक्ति प्रत्युक्ती ये येऽत्र । तावता दिव्यरूपः प्रत्यक्षः सुरो वक्ति- 'हे विमल ! इन्द्रेण तव पापभीरुत्वं प्रशंसितम्, तदनु मयेयं मण्डूकीविकरणादिका परीक्षा कृता,' अनिच्छतो विमलस्य वस्त्रे गरलोद्गारमणि बद्ध्वा गतः । विमल - सहदेवौ भुक्त्वा पुरमध्ये गतौ । तावता पुरक्षोभ:, पौराः पृष्टाः किमिदम् ? तैः प्रोचुः- 'अत्र राजा पुरुषोत्तमः, सुतोऽरिमल्लः, सोऽद्य सप्र्पेण दृष्टः ।' अत्रान्तरे पटहोद्घोषणा, यो राजपुत्रं जीवयति तस्यार्धराज्यं राजा दत्ते । सहदेवो वक्ति- 'विमल ! मणिप्रभावात्कुमारं सज्जीकृत्यार्धराज्यं गृह्यते । विमल आह- 'वत्स ! [ राज्यं] महदधिकरणम् ।' सहदेवो बलादपि मणि गृहीत्वा कुमारं सज्जीकृतवान् । राजार्धराज्यं दत्ते । सहदेवो वक्ति - 'मम भ्रातुर्दीयताम् ।' विमलोऽधिकरणभीरुतया परिग्रहाधिक्यतश्च नाङ्गीकुरुते । सहदेवस्य दत्तम्, विमलाय श्रेष्ठिपदम् पितरौ तत्राकारितौ । विमल: श्राद्धधर्ममाधियति । सहदेवो राज्ये राष्ट्रे आकरे च करं कुरुते । अधिकरणानि मीलयति, रिपुदेशान् मूढयति । विमलाह - ' भ्रातः ! किमिदमारब्धम् ?
वरमनलंमि पवेसो, फणिमुहकुवरे वरं करो खित्तो ।
वरं सपामयपीडा, न हु विरइविराहणा भाय ।।'
परं न लग्नं किमपि । एकदा सहदेवः केनाऽपि वैरिणा क्षुरिकया हतो मृतो गतः प्रथम नरके । अनन्तकालं भ्रान्त्वा शिवं गामी । विमलो देवलोके देवो जातो महाविदेहे शिवं गामी ।।
।। इति विमल-सहदेवकथा || [इइ भासासमिई]
9. मधु - मद्य-मांस - भेषज-मूल- शस्त्राग्नि- यन्त्र-मन्त्रादीनि । न कदापि हु दातव्यं शाठ्यैः पापभीरुभिः ।। 10. वरमनले प्रवेशो फणिमुखविवरे वरं करोत्क्षिप्तः । वरं सपामापीडा न हु विरतिविराधना भ्रातः ! ।।