________________
भाषासमिई mmmmmm
mmmmmmmm ३०९
निष्ठुरवचनमेकमप्युक्तमिहामुत्र चानर्थकरम् । यथा -
।। अथ महाशतकश्राद्धकथा ।। राजगृहे पुरे महाशतकश्रेष्ठी चतुर्विंशतिस्वर्णकोटिस्वाम्यशीतिसहस्रगोधनः । रेवतीप्रमुखत्रयोदशभार्यः, रेवत्या अष्टौ स्वर्णकोट्यः, अशीतिसहस्रगोधनः। अपरासां सर्वासामेकैका स्वर्णकोटी, एकैकं च गोकुलमेतावती ऋद्धिः स्वस्वपितृगृहसम्बन्धिनी ज्ञेया । महाशतकः श्रीवीरसमीपे श्रीजिनधर्मं प्रतिपन्नवान्। पुना रेवती न श्रद्धति, विषयलम्पटतया रेवत्या षट्स्वसपत्न्यो विषप्रयोगेन मारिताः । तासामृद्धिगृहीता तया । महाशतक एकदा एकादशश्राद्धप्रतिमामाराधयति । पुना रेवती तं प्रति सानुकूलोपसर्गान् करोति। स न क्षुभ्यति । षड्वर्षाणि प्रतिमामाराध्यानशनं प्रतिपनं शतकेन, तस्यावधिज्ञानं समुत्पन्नम् । रेवती मद्यपानं कृत्वोपसर्गान् करोति । महाशतकोऽवधिना दुश्चरितं जानाति नरकगमनं च । ततो महाशतको रेवतीं प्रति निष्ठुरवचनं वदति'रे पापे ! निर्लज्जे ! सपत्नीमारिके ! सप्तमदिने नरके यास्यसि त्वम् ।' रेवती तेन वचसा दूना स्वगृहे गता मृत्वा नरकं गता च । तावता श्रीवीरो गौतमं प्रेषयति । गौतमस्तं प्रति कथयति - 'महाशतक ! श्रीवीरस्त्वां प्रति कथयति -,त्वया रेवतीं प्रति निष्ठुरवचनं प्रोक्तम्, तेन तव तपो जर्जरीभूतम्, त्वमालोचय तदा शुद्धः स्यात् । महाशतकस्तद्वचनपापमालोच्य सौधर्मदेवलोके गतः ।।
॥ इति महाशतकश्राद्धकथा ।। अतो भाषासमितौ यत्यम् । बहुजल्पतः प्राज्ञस्याऽपि स्खलनं स्यात् । यदुक्तम् - "कस्य स्यान्न स्खलितम् ? पूर्णाः सर्वे मनोरथाः कस्य ?
कस्येह सुखं नित्यम् ? दैवेन न खण्डितः को वा ?" [सुक्तमुक्तावली-१८/२६] यदि श्रीगौतमस्वामी आनन्दश्रावकस्यावधिज्ञानोत्पत्तौ ऊर्ध्वं सौधर्मं यावद्, अधो रत्नप्रभाद्यप्रस्तरस्थलोलुपनरकावासं यावत्, तिर्यक् तिसृषु लवणोदधौ ५०० [पञ्चशतानि] योजनानि, उत्तरस्यां हिमवत्प्रस्थं यावत्, आगमेनावधिपरिमाणाश्रद्दधानः श्रीवीरपार्श्वे गत्वा [पृष्टवन्तः] । गौतमेन पृष्टो भगवानाह-गौतम ! मिथ्यादुष्कृतं देहि । ततो गौतमेनानन्दपार्श्वे समागत्य मिथ्यादुष्कृतम् [दत्तम्] ।
।। अथ विमल-सहदेवकथा ।। तथा कुशस्थलपुरे कुवलयचन्द्रः श्रेष्ठी, आनन्दश्री भार्या, पुत्रौ विमल-सहदेवौ । ज्येष्ठः पापभीरु:, कनीयान् विपरीतः । द्वावपि मुनिपाचे श्राद्धधर्मं प्रतिपन्नौ । एकदा द्वावपि व्यवसायकृते देशान्तरे चलितौ । मार्गे पथिकेनैकेन मार्ग पृष्टो विमलो वक्ति, न जानामि, पथिकेनोक्तम् - त्वं क्व यास्यसि ? विमल आह - यत्र पण्यविक्रयो भविष्यति । पथिक आह - तव पुरस्य किं नाम ? विमल आह - पुरं नृपस्य, मम तु नास्ति । २. 'श्रीवीरे' हस्त० । ३. 'प्रच्छनेन' हस्त० ।